अक्षमालिक (उपनिषद्)

अक्षमालिक (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला [१]। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख। थुकिया श्लोक ऋग् वेद व शैव उपनिषद् य् छ्यलातगु खने दु।

श्लोक

थुकिया श्लोक थ्व कथं दु[२]-.. अक्षमालिकोपनिषत् ..अकारादिक्षकारान्तवर्णजातकलेवरम् .विकलेवरकैवल्यं रामचन्द्रपदं भजे ..ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचिप्रतिष्ठितमाविरावीर्म एधि .. वेदस्य म आणीस्थःश्रुतं मे मा प्रहासीरनेनाधीतेनारात्रा- न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ..तन्मामवतु तद्वक्तारमवतु अवतु मामवतुवक्तारमवतु वक्तारम् ..ॐ शान्तिः शान्तिः शान्तिः ..हरिः ॐ . अथ प्रजापतिर्गुहं पप्रच्छ भोब्रह्मन्नक्षमालाभेदविधिं ब्रूहीति . सा किंलक्षणा कति भेदा अस्याः कति सूत्राणि कथंघटनाप्रकारः के वर्णाः का प्रतिष्ठाकैषाधिदेवता किं फलं चेति . तं गुहःप्रत्युवाच प्रवालमौक्तिकस्फटिकशङ्ख- रजताष्टापदचन्दनपुत्रजीविकाब्जे रुद्राक्षाइति . आदिक्षान्तमूर्तिः सावधानभावा .सौवर्णं राजतं ताम्रं तन्मुखे मुखंतत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेणयोजयेत् . यदस्यान्तरं सूत्रं तद्ब्रह्म .यद्दक्षपार्श्वे तच्छैवम् . यद्वामेतद्वैष्णवम् . यन्मुखं सा सरस्वती .यत्पुच्छं सा गायत्री . यत्सुषिरं साविद्या . या ग्रन्थिः सा प्रकृतिः . ये स्वरास्तेधवलाः . ये स्पर्शास्ते पीताः . ये परास्तेरक्ताः . अथ तां पञ्चभिर्गन्धैरमृतैःपञ्चभिर्गव्यैस्तनुभिः शोधयित्वापञ्चभिर्गव्यैर्गन्धोदकेन संस्राप्यतस्मात्सोङ्कारेण पत्रकूर्चेन स्नपयित्वा- ष्टभिर्गन्धैरालिप्य सुमनःस्थलेनिवेश्याक्षतपुष्पैराराध्य प्रत्यक्ष- मादिक्षान्तैर्वर्णैर्भावयेत् . ओमङ्कारमृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ .ओमाङ्काराकर्षणात्मकसर्वगत द्वितीयेऽक्षे प्रतितिष्ठ .ओमिङ्कारपुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ .ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ .ओमुङ्कार सर्वबलप्रद सारतर पञ्चमेऽक्षे प्रतितिष्ठ .ओमूङ्कारोच्चाटन दुःसह षष्ठेऽक्षे प्रतितिष्ठ .ओमृङ्काकार संक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ .ओमॄङ्कार संमोहनकरोजवलाष्टमेऽक्षे प्रतितिष्ठ .ओम्लृङ्कारविद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ .ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ .ओमेङ्कार सर्ववश्यकर शुद्धसत्त्वैकादशेऽक्षे प्रतितिष्ठ .ओमैङ्कार शुद्धसात्त्विक पुरुषवश्यकर द्वादशेऽक्षे प्रतितिष्ठ .ओमोङ्काराखिलवाङ्मय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ .ओमौङ्कार सर्ववाङ्मय वश्यकर चतुर्दशेऽक्षे प्रतितिष्ठ .ओमङ्कार गजादिवश्यकर मोहन पञ्चदशेऽक्षे प्रतितिष्ठ .ओमःकार मृत्युनाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ .ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ .ॐ खङ्कार सर्वक्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ .ॐ गङ्कार सर्वविघ्नशमन महत्तरैकोनविंशेऽक्षे प्रतितिष्ठ .ॐ घङ्कार सौभाग्यद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ .ॐ ङकार सर्वविषनाशकरोग्रैकविंशेऽक्षे प्रतितिष्ठ .ॐ चङ्काराभिचारघ्न क्रूर द्वाविंशेऽक्षे प्रतितिष्ठ .ॐ छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ .ॐ जङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विंशेऽक्षे प्रतितिष्ठ .ॐ झङ्कार भूतनाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ .ॐ ञकार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ .ॐ टङ्कार सर्वव्याधिहर सुभग सप्तविंशेऽक्षे प्रतितिष्ठ .ॐ ठङ्कार चन्द्ररूपाष्टाविंशेऽक्षे प्रतितिष्ठ .ॐ डङ्कार गरुडात्मक विषघ्न शोभनैकोनत्रिंशेऽक्षे प्रतितिष्ठ .ॐ ढङ्कार सर्वसंपत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ .ॐ णङ्कार सर्वसिद्धिप्रद मोहकरैकत्रिंशेऽक्षे प्रतितिष्ठ .ॐ तङ्कार धनधान्यादिसंपत्प्रद प्रसन्न द्वात्रिंशेऽक्षे प्रतितिष्ठ .ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ .ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षे प्रतितिष्ठ .ॐ धङ्कार विषज्वरनिघ्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ .ॐ नङ्कार भुक्तिमुक्तिप्रद शान्त षट्त्रिंशेऽक्षे प्रतितिष्ठ .ॐ पङ्कार विषविघ्ननाशन भव्य सप्तत्रिंशेऽक्षे प्रतितिष्ठ .ॐ फङ्काराणिमादिसिद्धिप्रद ज्योतीरूपाष्टत्रिंशेऽक्षे प्रतितिष्ठ .ॐ बङ्कार सर्वदोषहर शोभनैकोनचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ भङ्कार भूतप्रशान्तिकर भयानक चत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ मङ्कार विद्वेषिमोहनकरैकचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ यङ्कार सर्वव्यापक पावन द्विचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ रङ्कार दाहकर विकृत त्रिचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ लङ्कार विश्वंभर भासुर चतुश्चत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ वङ्कार सर्वाप्यायनकर निर्मल पञ्चचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ शङ्कार सर्वफलप्रद पवित्र षट्चत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ षङ्कार धर्मार्थकामद धवल सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ सङ्कार सर्वकारण सार्ववर्णिकाष्टचत्वारिंशेऽक्षे प्रतितिष्ठ .ॐ हङ्कार सर्ववाङ्मय निर्मलैकोनपञ्चाशदक्षे प्रतितिष्ठ .ॐ ळङ्कार सर्वशक्तिप्रद प्रधान पञ्चाशदक्षे प्रतितिष्ठ .ॐ क्षङ्कार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौ प्रतितिष्ठ .अथोवाच ये देवाः पृथिवीपदस्तेभ्यो नमोभगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तुशोभायै ज्ञानमयीमक्षमालिकाम् .अथोवाच ये देवा अन्तरिक्षसदस्तेभ्यः ॐ नमोभगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तुशोभायैज्ञानमयीमक्षमालिकाम् .अथोवाच ये देवा दिविषदस्तेभ्यो नमोभगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तुशोभायै ज्ञानमयीमक्षमालिकाम् .अथोवाच ये मन्त्रा या विद्यास्तेभ्योनमस्ताभ्यश्चोन्नमस्तच्छक्तिरस्याःप्रतिष्ठापयति .अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यःसगुणेभ्य ॐ नमस्तद्वीर्यमस्याःप्रतिष्ठापयति .अथोवाच ये साङ्ख्यादितत्त्वभेदास्तेभ्योनमो वर्तध्वं विरोधेऽनुवर्तध्वम् .अथोवाच ये शैवा वैष्णवाः शाक्ताःशतसहस्रशस्तेभ्यो नमोनमो भगवन्तोऽ- नुमदन्त्वनुगृह्णन्तु .अथोवाच याश्च मृत्योः प्राणवत्यस्ताभ्योनमोनमस्तेनैतं मृडयत मृडयत .पुनरेतस्यां सर्वात्मकत्वं भावयित्वा भावेनपूर्वमालिकामुत्पाद्यारभ्य तन्मयींमहोपहारैरुपहृत्य आदिक्षान्तैरक्षरैरक्ष- मालामष्टोत्तरशतं स्पृशेत् .अथ पुनरुत्थाप्य प्रदक्षिणीकृत्यों नमस्तेभगवति मन्त्रमातृकेऽक्षमालेसर्ववशङ्कर्योंनमस्ते भगवति मन्त्रमातृकेऽ- क्षमालिके शेषस्तम्भिन्योंनमस्ते भगवतिमन्त्रमातृकेऽक्षमाले उच्चाटन्योंनमस्तेभगवति मन्त्रमातृकेऽक्षमाले विश्वामृत्योमृत्युञ्जयस्वरूपिणि सकललोकोद्दीपिनि सकललोक- रक्षाधिके सकललोकोज्जीविके सकललोकोत्पादिकेदिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासिदेशान्तरं यासि द्वीपान्तरं यासि लोकान्तरंयासि सर्वदा स्फुरसि सर्वहृदि वाससि .नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नमस्तेमध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वात्मिकेसर्वविद्यात्मिके सर्वशक्त्यात्मिके सर्वदेवात्मिकेवसिष्ठेन मुनिनाराधिते विश्वामित्रेणमुनिनोपजीव्यमाने नमस्ते नमस्ते .प्रातरधीयानो रात्रिकृतं पापं नाशयति .सायमधीयानो दिवसकृतं पापं नाशयति .तत्सायंप्रातः प्रयुञ्जानः पापोऽपापोभवति .एवमक्षमालिकया जप्तो मन्त्रः सद्यः सिद्धिकरोभवतीत्याह भगवान्गुहः प्रजापतिमित्युपनिअषत् ..ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचिप्रतिष्ठितमाविरावीर्म एधि .. वेदस्य म आणीस्थःश्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रा- न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि .तन्मामवतु तद्वक्तारमवतु अवतु मामवतुवक्तारमवतु वक्तारम् ..ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..इत्यक्षमालिकोपनिषत्समाप्ता ..

लिधंसा

स्वयादिसँ


उपनिषद्तेगु धलः
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति:वेद · उपनिषद · श्रुत
स्मृति:इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त:अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन:मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा:ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु:शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन:वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य:द्यतेगु नां · हिन्दू बाखं
युग:सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण:ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म