इन्दौरमण्डलम्

इन्दौरमण्डलम् ( /ˈɪndɔːrəməndələm/) (हिन्दी: इंदौर जिला, आङ्ग्ल: Indore district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति इन्दौर इति नगरम् ।

इन्दौरमण्डलम्

Indore District
इन्दौर जिला
इन्दौरमण्डलम्
इन्दौरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे इन्दौरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे इन्दौरमण्डलम्
देशः India
राज्यम्मध्यप्रदेशः
उपमण्डलानिइन्दौर, देपलपुर, महु, सांवेर, हतोड
विस्तारः३,८९८ च. कि. मी.
जनसङ्ख्या (२०११)३२,७६,६९७
Time zoneUTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता८०.८७%
भाषाःहिन्दी, आङ्ग्लं
लिङ्गानुपातःपु.-५०%, स्त्री.-४९%
Websitehttp://indore.nic.in/

भौगोलिकम्

इन्दौरमण्डलस्य विस्तारः ३,८९८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे धारमण्डलम्, उत्तरे उज्जैनमण्डलं, दक्षिणे खरगौनमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी, क्षिप्रानदी च प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् इन्दौरमण्डलस्य जनसङ्ख्या ३२,७६,६९७ अस्ति । अत्र १६,९९,६२७ पुरुषाः, १५,७७,०७० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८४१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.८८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८०.८७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ इन्दौर, देपलपुर, महु, सांवेर, हतोड ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः अपि सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः, विदेशात् च विद्यार्थिनः पठितुं तत्र गच्छन्ति । तेन कारणेन इदं मण्डलं प्रगतिशीलम् अस्ति ।

वीक्षणीयस्थलानि

खजराना गणेशमन्दिरम्

बहवः श्रद्धालवः इन्दौर-नगरवासिनः तथा समीपस्थनगरजनाः तत्र दर्शनार्थं गच्छन्ति । अस्य मन्दिरस्य निर्माणम् अहिल्याबाई होल्कर इत्यनया कारितम् । इयं मराठाराज्ञी आसीत् । इदं स्थलं हिन्दुजनानां कृते महत्वपूर्णमस्ति ।

गुरुद्वारा

इन्दौर-नगरं प्राक्तनादेव सिक्खधर्मेण सह संलग्नम् अस्ति । अस्मिन् नगरे एकं प्रसिद्धं गुरुद्वारा अस्ति । गुरुनानक ई. १५६७ तमे वर्षे तत्र गतः आसीत् ।

अन्नपूर्णामन्दिरम्

अन्नपूर्णामन्दिरं बहुसुन्दरं तथा पुरातनम् अस्ति । इन्दौर-नगरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे अन्नपूर्णामातुः सुन्दरप्रतिमा अस्ति । इदं तीर्थयात्राकेन्द्रमस्ति । तत्र न केवलं भक्ताः गच्छन्ति अपि तु पर्यटकाः अपि गत्वा मन्दिरस्य अवलोकनं कुर्वन्ति ।

बडा गणपति

अस्मिन् मन्दिरे गणेशस्य विशालप्रतिमा अस्ति । तेन कारणेन इदं प्रख्यातमस्ति । अस्य मन्दिरस्य निर्माणम् ई. १८७५ तमे वर्षे ’श्रीदधीच’ इत्यनेन कारितम् । अस्याः प्रतिमायाः उच्चता २५ फीट अस्ति ।

बाह्यसम्पर्कतन्तुः

http://indore.nic.in/
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html
http://www.census2011.co.in/census/district/306-indore.html

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=इन्दौरमण्डलम्&oldid=463971" इत्यस्माद् प्रतिप्राप्तम्