जयापीडः
जयापीडः कविः राजा च आसीत्। जयापीडः क्रि.श सप्तमशताब्देः अन्तकाले काश्मीर प्रदेशे बभूव। मुक्तापूडललितादित्यस्य च क्रमदर्शिकायां सञ्जातो बप्पियललितादित्यापरनामा वज्रादित्योऽस्य कवेः पिता। ज्येष्ठभ्रातरं राज्यभ्रष्टं कृत्वाऽयं कश्मीरपालकः समभवत्। राजायं क्षीरस्वामिबुधाल्लुब्धशब्दशास्त्रविद्यः साहित्यचणः कविश्च भूत्वा पण्डितख्यातिमलभत। एतस्य वृत्तान्तं कल्हणस्य राजतरङ्गिण्यां वर्णितम्। एषः यद्यपि कविः इति ज्ञायते तथापि अस्य ग्रन्थः न समुपलब्धः। सुभाषितावल्यां जयापीडश्लोकोऽयं समुपलभ्यते।
- पुरो रेवापारे गिरिरिति दुरारोहशिखरः
- सरः सव्ये वामे दवदहनदाहव्यतिकरः।
- धनुष्पाणिः पश्चातच्छबरहतको धावतितरां
- न यातुं न स्थातुं हरिणशिशुरेष प्रभवति॥
जयापीडः कवीनामाश्रयदाता आसीत्। तदप्युक्तं राजतरङ्गिण्यां-
- मनोरथः शङ्खदत्तो चटकः सन्धिमास्तथा।
- बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः॥
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्