नैनितालमण्डलम्

नैनितालमण्डलम् ( /ˈnɛɪnɪtɑːləməndələm/) (हिन्दी: नैनिताल जिला, आङ्ग्ल: Nainital District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नैनिताल इति नगरम् । नैनितालमण्डलं मन्दिर-पर्यटन-तडाग-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । आङ्ग्लकालीनप्रासादाः अपि वीक्षणीयाः सन्ति अत्र ।

नैनितालमण्डलम्

Nainital District

नैनिताल जिला
Lake district of India
नैनितालमण्डलम्
नैनितालतडागस्य मनोरञ्जकं दृश्यम्
देशः India
राज्यम्उत्तराखण्डः
उपमण्डलानिनैनिताल, रामनगर, कलधौगी, हल्डवानी, धारी, लालकौन, कोस्य कुतौली, बेटलघाट
विस्तारः३,८६० च.कि.मी.
जनसङ्ख्या(२०११)९,५४,६०५
Time zoneUTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता८३.८८%
भाषाःकुमाँउनी, हिन्दी, आङ्ग्लं
लिङ्गानुपातःपु.-५०%, स्त्री.-४९%
Websitehttp://nainital.nic.in/

भौगोलिकम्

नैनितालमण्डलस्य विस्तारः ३,८६० च.कि.मी.-मितः । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि अल्मोडामण्डलं, पूर्वदिशि चम्पावतमण्डलं, दक्षिणदिशि उधमसिॆहनगरमण्डलं, पश्चिमदिशि पौरीगढवालमण्डलम् अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - कोसी, गोमती, रामगङ्गा, सवन्नाह, सोनानदी, मण्डल, पलैन ।

जनसङ्ख्या

नैनितालमण्डलस्य जनसङ्ख्या(२०११) ९,५४,६०५ अस्ति । अत्र ४,९३,६६६ पुरुषाः, ४,६०८,९३९ स्त्रियः, १,२४,२७२ बालकाः (६५,३३७ बालकाः, ५८,९३५ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८३.८८% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८३.८८% स्त्री - ७८.३६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ नैनिताल २ रामनगर ३ कलधौगी ४ हल्डवानी ५ धारी ६ लालकौन ७ कोस्य कुतौली ८ बेटलघाट ।

वीक्षणीयस्थलानि

भीमताल

नैनिताल-नगरात् द्वाविंशतिः (२२) कि.मी. दूरे स्थितः एषः नैनितालमण्डलस्य बृहत्तमः तडागः अस्ति । महाभारतस्य प्रख्यातपात्रस्य भीमसेनस्य नाम्ना अस्य तडागस्य नाम भीमताल इति । तडागस्य केन्द्रे लघुद्वीपः अस्ति । तं द्वीपं प्राप्तुं नावा गन्तव्यं भवति । तत्र सुन्दरं मत्स्यगृहमस्ति । नैनितालतडागवत् भीमतालतडागे सम्मर्दः (Crowd) तु न भवति, परन्तु तडागस्थाः हंसाः अतिथीनां मनोरञ्जनं सम्यक् कुर्वन्ति । जनाः कथयन्ति यत्, सम्मर्दस्य (crowd) अभावादेव तडागस्य सौन्दर्यं, स्वच्छता च संरक्षितास्ति । भीमेश्वरनामकं शिवमन्दिरमपि स्थितमस्ति भीमतालतडागस्य तीरे ।

सातताल (सप्ततडागः)

सप्तानां तडागानां समूहः अस्ति अस्मिन् स्थले, अतः अस्य नाम 'सातताल' इति । निसर्गः तु सर्वदा पवित्रः, निर्दोषः एव भवति । मनुष्यः स्वस्वार्थपूर्त्यर्थं निसर्गस्य कार्ये विघ्नम् उत्पादयति । अतः निसर्गः मनुष्यरूपिणः स्वबालकान् बोधयति यत्, “मम रक्षणं करोतु, भवतः रक्षणं स्वयमेव भविष्यती”ति । अस्य स्थलस्य रमणीयता सतः मनुष्यस्य मनसि एतादृशान् भावान् एव उत्पादयति । अत्रस्थानां सप्तानां तडागानां नामानि – पन्नाताल, नलदमयन्तीताल, पूर्णताल, रामताल, सीताताल, लक्षमणताल, सुखताल ।

बाह्यानुबन्धः

http://nainital.nic.in/

http://www.euttaranchal.com/uttaranchal/nainital.php

http://dcnai.uk.gov.in/ Archived २०१४-०१-१३ at the Wayback Machine

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=नैनितालमण्डलम्&oldid=481639" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्