पूर्वगोदावरीमण्डलम्

पूर्वगोदावरिमण्डलम् (East Godavari district) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं काकिनाड नगरम् ।

తూర్పు గోదావరి జిల్లా
पूर्वगोदावरी
"पूर्वगोदावरी"
—  मण्डलम्  —
पूर्वगोदावरीमण्डलम्
पूर्वगोदावरीमण्डलम्
తూర్పు గోదావరి జిల్లా
पूर्वगोदावरी
Location of తూర్పు గోదావరి జిల్లా
पूर्वगोदावरी
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१६°३४′१२″उत्तरदिक् ८२°०९′००″पूर्वदिक् / 16.570°उत्तरदिक् 82.150°पूर्वदिक् / १६.५७०; ८२.१५०

देशःभारतम्
राज्यम्आन्ध्रप्रदेशराज्यम्
मण्डलम्पूर्वगोदावरी
Collector & District Magistrate
जनसङ्ख्या

• सान्द्रता

५१,५१,५४९ (2011)

477 /किमी2 (1,235 /वर्ग मील)

व्यावहारिकभाषा(ः)तेलुगुभाषा
समयवलयःIST (UTC+05:30)
विस्तीर्णम्10,807 वर्ग किलोमीटर (4,173 वर्ग मील)
वायुमण्डलम्

• तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कोप्पेन्)

     1,200 मिमी (47 इंच)
     26.0 °से (78.8 °फ़ै)
     45.9 °से (114.6 °फ़ै)
     23.5 °से (74.3 °फ़ै)

जालस्थानम्eastgodavari.nic.in

इतिहासः

आन्ध्रप्रदेशराज्ये महत्या कृषिभूम्या गवां सम्पदा च विराजमानम् अत्यन्तं सुरम्यं मण्डलं प्राग्गोदावरी । इदं १९०४ तमे वर्षे आविष्कृतम् । ततः पूर्वं [[1069. (इतिहासः) ‎पूर्वगोदावरीमण्डलम् ‎[११,०३३ अष्टकानि]मौर्य-शातवाहन-चालक्य-तुरुष्ककाकतीयादिराट्भिः पालितम् । अस्य मण्डलस्य आधिपत्यनिमित्तं फ्रेञ्च्, तथा निजां नवाबयोः मध्ये महत् युध्दं संवृत्तं चन्दुर्तिप्रान्तम् । १७६६ पश्चात् अयं प्रान्तः ब्रिटिश् ईस्टिंडियाकम्पन्याः आधीनतां गतः । आन्ध्रमहाभारतरचयितुः नन्नयकवेः जन्मस्थानमिदम् । सङ्गीतसाहित्यकलाविज्ञानक्षेत्रेषु इदम् अन्यतमं मण्डलम् । कन्दुकूरिवीरेशलिङ्गमहोदयेन हितकारी समाजः निर्मितः ।

भौगोलिकम्

भौगोलिकरीत्या अत्यन्तं विस्तृतम् इदं मण्डलम् । इतः १९०४, १९६० कालयोः कांश्चन प्रान्तान् विभज्य अन्यमण्डलेषु संयोजितवन्तः । मण्डले ३०% अरण्येन विस्तृतम् । ग्राफैट्, बाक्सैट्, जिर्कान्, मोनोजैट् इत्यादि खनिजानि उपलभ्यन्ते । राजमहेन्द्रवरे अत्यन्तं दीर्घः रेल्, रोड्मार्गः अस्याः गोदावर्याः उपरि निर्मितः । प्राक्चालक्यराजेन प्रथमभीमराजेन भीमवरं, द्राक्षारामं च निर्मितम् ।

कृषिः वाणिज्यं च

काकिनाडनौकायानकेन्द्रद्वारा तिलाः, चायपत्रं, जूटवस्तूनि, ग्राफैट् इत्यादीनां प्रेषणं भवति स्म । राजोलुकोत्तपेटप्रदेशौ नारिकेलानां मूलस्रोतसी इति प्रसिद्धौ । काकिनाडप्रान्ते गोदावरीसस्यवर्धकानां कर्मागारः, नागार्जुनसस्य संवर्धककर्मागारः च स्थापितः । राजमहेन्द्रवरे आन्ध्रपत्रनिर्माणसंस्था विज्जेश्वरप्रान्ते अनिलाधारित विद्युदुत्पादककेन्द्रं, राजमहेन्द्रवरे अङ्गारकविद्युत्केन्द्रम् इत्यादीनि बहूनि कर्मागाराणि मण्डले प्रचाल्यन्ते । गोदावरी नदी रम्पचोडवरम् इत्यस्मिन् स्थाने मण्डलं प्रविश्य धवलेश्वरप्रान्ते पथद्वये वशिष्टगौतमी, इति नामभ्यां प्रवहति । वशिष्टः पश्चिमायां दिशि प्रवहन् वैनतेयम् इति उपनाम्ना राजोलुसमीपे सागरं प्रविशति । धवलेश्वरे प्रप्रथमतया सर्. आर्थर् काटन् सेतुनिर्माणम् अस्याः नद्याः उपरि अकारयत् । ततः तस्मिन् स्थाने बारेज् निर्माणं समभूत् । माङ्गनीस्, क्लिङ्कर, मूलगन्धकम् इत्यादीनाम् अवतरणमपि भवति । मण्डले धान्यम्, इक्षुः, कदली, आम्रम्, नारिकेलम् इत्यादीनां कृषिः भवति । कृषकाणां दुकूलं, गोपोषणं, शाखादिकानां सस्यवर्धने अतीव श्रध्दा वर्तते ।

तालुकाः

  • ताल्लरेवु
  • काजुलूरु
  • करप
  • काकिनाड (रुरल्)
  • सामर्लकोट्
  • पेदपूडि
  • पिठापुरम्
  • गोल्लप्रोलु
  • कोत्तपल्लि
  • प्रतिपाडु
  • एलेखरम्
  • शङ्खारावम्
  • पेद्दापुरम्
  • किर्लम्पूडि
  • जग्गम्पेट्
  • गण्डेपल्लि
  • रङ्गम्पेट
  • तुनि
  • तोण्डङ्गि
  • कोटनण्डूरु
  • अड्डतीगल
  • राजवोम्माङ्गि
  • रामवरम्
  • गङ्गवरम्
  • रम्पचोडवरम्
  • देवीपटनम्
  • मारेडुलिल्लि
  • राजमण्ड्रि
  • राजानगरम्
  • कडियम्
  • कोरुकोण्ड
  • गोकवरम्
  • सीतानगरम्
  • रायवरम्
  • बिक्कवोलु
  • अनपर्ति
  • रामचन्द्रापुरम्
  • पामर्रु
  • आलमूरु
  • मण्डपेट
  • कपिलेश्वरपुरम्
  • सखिनेटिपल्लि
  • मल्किपुरम्
  • राजोलु
  • मामिडिकुदुरु
  • गन्नवरम्
  • रावुलपालेम्
  • आत्रेयपुरम्
  • कोत्तपेट
  • अम्बाजीपेट
  • अमलापुरम्
  • अल्लवरम्
  • उप्पलगुप्तम्
  • ऎनपल्लि
  • मुम्मिडिवरम्
  • काट्रेनि कोन
  • पोलवरम्

बाह्यम्पर्कतन्तुः

Note: यनम्-मण्डलम्, पाण्डिच्चेरी is completely surrounded by East Godavari district.