भरतः
व्यक्तयः
भारतीयेतिहासे बहवः भरताः अभवन् । तेषु शकुन्तलापुत्रस्य भरतस्य नाम्ना भारतं भारतवर्षं वा अस्माकं देशस्य नामकरणम् अभवत् । ते भरताः अधः सन्ति ।
- राजा भरतः :- शकुन्तलापुत्रः राजा भरतः यदा बालकः आसीत्, तदा सः व्याघ्रस्य दन्तान् अगणयत् (गीने थे) ।
- जडभरतः :- भागवतमहापुराणे जडभरतस्य कथा प्राप्यते । जडभरतः प्रपूर्वस्मिन् जन्मनि ऋषभदेवस्य पुत्रः आसीत् । तस्य पिता ऋषभदेवः तस्मै राजसेवायाः कार्यं दत्त्वा वनवासाय अगच्छत् । ततः कालान्तरे भरतस्य आयुः जाते सति सोऽपि वनवासाय अगच्छत् । परन्तु अन्तिमसमये मृगस्य मोहेनग्रस्तः सः अपरस्मिन् जन्मनि मृगः अभवत् । ततः सः पुनः मनुष्ययोनिं प्रापत् । तस्मिन् जन्मनि अपि तस्य नाम भरतः आसीत् । परन्तु जडस्वभावत्वात् जनाः तं जडभरतः इति आह्वयन्ति स्म ।
- भरतमुनिः :- भारतीयसङ्गीतशास्त्रस्य महान् विद्वान्, यः नाट्यशास्त्रस्य रचनाम् अकरोत् ।
- रामभ्राता भरतः :- दशरथस्य पुत्रः, रामभ्राता भरतः । यस्य नाम्ना भरतमिलापः प्रसिद्धशब्दः समुद्भूतः ।
- भरतस्वामी :- सामवेदस्योपरि भाष्यम् अलिखत्।
अन्यत्
- भरतनाट्यम् :- भारते नाट्यस्य कश्चित् प्रकारः ।
- भरतपुरम् :- भारतगणराज्यस्य राजस्थानराज्यस्य किञ्चन नगरमेतत् ।
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्