भारतसावित्री
भारतसावित्री
महाभारतस्य अन्तिमे पर्वणि भारतसावित्री नाम्ना पद्यपञ्चकं विद्यते, तदेवम् -
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥18-5-73a,b
हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥18-5-74a,b
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ 18-5-75a,b
न जातु कामान्न भयान्न लोभा-द्धर्मं त्यजेज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ 18-5-76a,b,c,d
इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥18-5-77a,b
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्