रङ्गारेड्डिमण्डलम्

(रंगारॆड्डि मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

रङ्गारेड्डिमण्डलम् (Ranga Reddy district)तेलङ्गाणाराज्यम् स्थितमॆकं मण्डलमस्ति ।

रङ्गारेड्डिमण्डलम्
रङ्गारेड्डि
—  मण्डलम्  —
रङ्गारेड्डिमण्डलम् सुन्दरं दृश्य
रङ्गारेड्डिमण्डलम् सुन्दरं दृश्य
'
Location of रङ्गारेड्डिमण्डलम्
in तेलङ्गाणाराज्यम्
निर्देशाङ्काः

१७°१२′००″उत्तरदिक् ७८°१६′४८″पूर्वदिक् / 17.20°उत्तरदिक् 78.280°पूर्वदिक् / १७.२०; ७८.२८०

देशःभारतम्
राज्यम्तेलङ्गाणाराज्यम्
जनसङ्ख्या

• सान्द्रता

३,५७५,०६४ (2001)

4,73,000 /किमी2 (12,25,064 /वर्ग मील)

व्यावहारिकभाषा(ः)तेलुगु
समयवलयःIST (UTC+05:30)
वायुमण्डलम्

• तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कोप्पेन्)

     603 मिमी (23.7 इंच)
     26.0 °से (78.8 °फ़ै)
     45.9 °से (114.6 °फ़ै)
     23.5 °से (74.3 °फ़ै)

जालस्थानम्rangareddy.ap.nic.in/

इतिहासः

तेलङ्गाणाप्रान्तस्य प्रमुखनायकः के.वि.रङ्गारेड्डी नाम्ना १९७० प्रान्ते आविष्कृतमिदं रङ्गारेड्डी मण्डलम् ।

भौगोलिकम्

प्राच्यां नल्गोण्डमण्डलं, पश्चिमायां कर्णाटकराज्यम्, उत्तरे मेदकमण्डलम्, दक्षिणे महबूब् नगरमण्डलं च सीमायां वर्तन्ते । जनपदे ९.७% भूम्यां अरण्यं विद्यते ।

कृषिः वणिज्यं च

शतशः परिश्रमाः वर्तन्ते अत्र । भाग्यनगरसीमायां विद्यमानानि कर्मागाराणि अस्य मण्डलस्य परिधौ आयान्ति । “ताण्डूरु” प्रान्ते सिमेण्ट् कर्मागारः वर्तते । इष्टिकाः, शौचवाहकाः, जम्बालाः च उपलभ्यन्तेऽत्र । पिङ्गलमृत् फेलोपेन् क्वर्तज्, लैम्स्टोन् अपि उपलभ्यते । वृष्टिपातः अल्पः इत्यतः एरण्डादिसस्यानि अधिकानि भवन्ति । माषाः, मुद्गाः, पलाण्डुः, इत्यादीनां सेद्यं क्रियते कृषकैः । षामीर्पेटा, हकीम्पेटा इत्यादिप्रान्तेषु द्राक्षाणां सस्यं क्रियते । राजेन्द्रनगरे कृषिविश्वविद्यालयः संस्थापितः १९६४ तमे वर्षे । अनन्तगिरिपर्वतोत्पन्ना मूसीनदी वाडपल्लिसमीपे कृष्णानद्यां विलीना भवति । अस्याः आलेरु इत्याख्या उपनदी अपि अस्ति । अस्मिन् आर्थिकतालूकात्रयं वर्तते । मण्डले महाविद्यालयाः “उस्मानिया” विश्वविद्यालयस्य परिधौ चाल्यन्ते । माध्यमिककर्मागाराणाम् अधिकभागः अस्मिन् मण्डले एव विराजन्ते । मिथानी, हेच्. एम्. टि., इ. सि. ऐ. एल्, इत्यादिकेन्द्रसर्वकारसंस्थासु अधिकानाम् उपलब्धिः वर्तते । अनेन वाणिज्यरीत्या वर्धमानमिदं मण्डलम् ।

तालूकाः

  • इब्रहीम्पट्टनम्
  • याचारम्
  • मञ्चल
  • महेश्वरम्
  • कन्दुकूरु
  • हयत्नगर्
  • उप्पल्
  • सरुर् नगरम्
  • घटकेसर्
  • मेड्चल्
  • षमीर्पेट्
  • कुतुबुल्लापूर्
  • कीसर
  • मल्काज्गिरिः
  • बालानगरम्
  • सेरिलिङ्गम्पल्लि
  • राजेन्द्रनगरम्
  • शंशाबाद्
  • शङ्करपल्लि
  • चेवेल्ल
  • मोयिनाबाद्
  • षाबाद्
  • गन्देड्
  • कुल्कचेर्ल
  • दोम
  • पर्गि
  • पूडूरु
  • धारुर्
  • नवाबपेट्
  • विकाराबाद्
  • मोमिन्पेट्
  • मार्पल्लि
  • बण्ट्वारम्
  • पेद्देमुल्
  • बषीराबाद्
  • यालाल्
  • ताण्डूरु

बाह्यसम्पर्कतन्तुः