ललितादेवी (प्रयागः)


ललितादेवी (प्रयागः)एतत् पीठं भारतस्य उत्तरप्रदेशस्य अलहाबादनगरे अस्ति । नगरात् अनतिदूरे विद्यमाने गङ्गा-यमुना-सरस्वतीनां सङ्गमस्थाने सङ्गम इत्यत्र अस्ति। अस्मिन् त्रिवेणीसङ्गमे स्नातं चेत् सर्वाणि पापाणि परिहृतानि भवन्ति इति विश्वासः ।

सम्पर्कः

अलहाबादनगरतः बस् यानानां सौकर्यम् अस्ति ।

वैशिष्ट्यम्

अत्र देव्याः दक्षिणहस्तस्य अङ्गुल्यः पतिताः इति ऐतिह्यम् अस्ति । अत्रत्या देवी ललिता अथवा अलोपीदेवी इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः भैरवः अथवा भवः इति च पूज्यते । लघुप्रेङ्खायां विद्यमानां मूर्तिं देवी इति आराधयन्ति । दोलायां देवीं स्थापयित्वा पूजाकरणे कुतूहलकारि ऐतिह्यम् अस्ति।बहुपूर्वं अत्र गहनम् अरण्यम् आसीत् । विवाहानन्तरं वधूं शिबिकायां संस्थाप्य पत्युः गृहं प्रति नयनस्य क्रमः आसीत् खलु। तादृशे एव कस्मिंश्चित् सन्दर्भे लुण्ठाकाः आगत्य आभरणाणि अपहृतवन्तः। वध्वाः शिबिका यदा दृष्टा तदा सा तत्र नासीत् । देवी एव वधूम् अदृश्यां (अलोपि) कृत्वा रक्षितवती इति वार्ता प्रसृता । सा एव कथा अन्ते प्रचलने आगता । देव्याः नाम अलोपी इति च प्रसिद्धम्। केषाञ्चनमतानुसारम् अलहाबादनगरे (सङ्गमसमीपे न) विद्यमानः अपरः ललितादेवीदेवालयः एव शक्तिपीठम् ।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्