वरङ्गलमण्डलम्

आन्ध्रप्रदेशस्य मण्डलानि.

इतिहासः

आन्ध्रप्रदेशराज्ये अत्यन्तं चारित्रकप्राधान्यतां याति इदं वरङ्गल् मण्डलम् (Warangal district)। यादवाः,चालक्याः,शातवाहनाः, राष्टकूटाः,काकतीयाः बहमनीवंशजाः, दिल्लीसुल्तानजनाः, मोगलायिनः, गोल्कोण्डनवाब् पालकाः, एतन् प्रदेशं पर्यपालयन् । काकतीयानां पालने अत्यन्तम् उच्चस्थितिं गतमिदं मण्डलम् आन्ध्रवैभवं शिल्पकला संस्कृतिः इत्येतेषां द्वारा दिशः व्यापृताः । १९५३ तमे वर्षे करीम्नगर्,नल्गोण्डामण्डलाभ्यां केचन प्रदेशाः मण्डलेस्मिन् संयोजिताः । १९७५ तमे वर्षे खम्मं मण्डलात् वरङ्गल् मण्डलं पृथक्कृतम् ।

भौगोलिकम्

अस्य मण्डलस्य प्राच्यां खम्मं मण्डलम्, पश्चिमे मेदक्, उत्तरे करीम्नगरं, दक्षिणे च नल्गोण्डा, खम्मं मण्डले सीमायां वर्तन्ते । २९% भूभागः अटवीमयः विद्यते । एटूरुनागारं इत्यस्य समीपे वन्यमृगसंरक्षणकेन्द्रमेकं १००० कि.मी.मितं विस्तृतम् । २४५० कि.मी. मिते विस्तीर्णे अङ्गारनिक्षेपाः लब्धाः । आलेरु, मुन्नेरु, पालेरु इत्याख्याः उपनद्यः प्रवहन्ति । नैऋति ऋतुप्रभावात् वृष्टिः सम्भवति ।

वाणिज्यम्

एटूरुनागारं इत्यस्मिन् प्रान्ते आन्ध्रप्रदेशरेयान्स् लिमिटेड् कर्मागारः, वरङ्गल् प्रान्ते च सस्यपरिशोधनाकेन्द्रं कार्यं कुर्वन्ति । १८८६ तमे वर्षे इदम्प्रथमतया रेल् मार्गः निर्मितः । वस्त्रवयने, लोहविग्रहाणां निर्माणे च मण्डलस्य ख्यातिः वर्तते । काकतीयविश्वविद्यालयः, प्रान्तीयतान्त्रिकमहाविद्यालयः, वैद्यमहाविद्यालयः च विद्यन्ते ।

वीक्षणीयस्थलानि

ओरुगल्लु दुर्गम्, सहस्रस्थम्भदेवालयः, रामप्पदेवालयः, पाकाल, लक्कवरं रामप्पस्वयंभू देवालयः, पद्माक्षी देवालयः इत्यादीनि प्राचीननिर्माणानि बहूनि विराजन्ते । इमानि अवश्यं वीक्षणीयानि ।

वीथिका

तालूकाः

  • चिटयाल्
  • मोगुल्लपल्लि
  • भूपालपल्लि
  • परकाल
  • शायम्पेट्
  • रेगोण्ड
  • मुलुगु
  • धनापूर्
  • वेङ्कटापूरु
  • गोविन्दरावुपेट्
  • एटूरु नागारम्
  • ताडवायि
  • के. समुद्रम्
  • मङ्गपेट्
  • गूडूरु
  • खानापूर्
  • कोत्तगूडेम्
  • नर्सम्पेट्
  • नल्लबल्लि
  • चेन्नारावुपेट्
  • दुग्गोण्ड
  • नेक्कोण्ड्
  • हन्मकोण्ड्
  • हसन्पर्ति
  • आत्मकूरु
  • नेल्लिकुदुरु
  • गीसुकोण्ड
  • सङ्गम्
  • घन्पूर्
  • धर्मसागरम्
  • जफरगढ
  • चेरियल्
  • बच्चन्नपेट
  • नेर्मेट्ट
  • मद्दूरु
  • वर्दन्नपेट
  • पर्वतगिरिः
  • रायपर्ति
  • डोर्नकल्
  • जनगाम्
  • रघुनाथपल्लि
  • लिङ्गालधन्पूर्
  • कोडकण्डल्
  • पालकुर्ति
  • देवरुप्पल्
  • मुरिपेड
  • दन्तालपल्लि
  • तोर्रुर्
  • महबूबाबाद्
  • बल्पाल्

बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=वरङ्गलमण्डलम्&oldid=370294" इत्यस्माद् प्रतिप्राप्तम्