विकिः


विकिः अथवा विकि तु कश्चन जालस्थलस्य प्रकारः। विकिः तु एतादृशं जालस्थलं यस्य प्रयोक्तारः अस्मिन् अधिकं योक्तुं, परिवर्तयितुं अथवा अपाकर्तुं समर्थाः। तत्र विचरकस्य (ब्राउसर् इति) प्रयोगेन, काञ्चित् चिह्नकारिणीं भाषां नियोज्य अथवा कस्यचित् रिच्टेक्स्ट्-ऍडिटराख्यस्य उपकरणस्य प्रयोगेन सम्पादनानि क्रियन्ते।[१][२][३] प्रायः विकिक्रमादेशेन विकयः प्रचाल्यन्ते। ताः तु बहुभिः प्रयोक्तृभिः सहकारेण प्रयुज्यन्ते। तत्रोदाहरणानि च समुदायजालस्थलानि, नैगम-आन्तर्यजालानि, ज्ञानप्रबन्धनतन्त्राणि तथा च नोटटेकिङ्ग् इत्याख्यानि।

प्रथमस्य विकिक्रमादेशस्य विकासकः वार्ड्-कनिङ्घमः निगदितवान् स्वकीयस्य विकिविकिवेब्-नाम्नः क्रमादेशस्य विषये, "अयं नाम सरलतमः जालस्थः समङ्ककोशः यः कार्यं कुर्यात्" इति।"[४]

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=विकिः&oldid=370013" इत्यस्माद् प्रतिप्राप्तम्