विद्योत्तमा
(विद्याधरा इत्यस्मात् पुनर्निर्दिष्टम्)
कस्याश्चित् कथायाः अनुसारम् एषा कालिदासस्य पत्नी । विदर्भदेशस्य राजकुमारी एषा कालीदेव्याः परमभक्ता । राज्ञः एकमात्रया पुत्र्या सह मन्त्री स्वपुत्रस्य विवाहं निर्वर्तयितुम् इच्छति । विद्याधरा दुष्टं मन्त्रिकुमारं तिरस्करोति । क्रुद्धः खिन्नः मन्त्री कुटीलोपायेन मन्दमतिना कालिदासेन सह राजकुमार्याः विवाहं कारयति। विवाहानन्तरं वास्तविकतां ज्ञात्वा राजकुमारी दुःखिता भूत्वा काल्याः प्रार्थनां कर्तुं पतिं निवेदयति।काल्याः अनुग्रहेण कालिदासः पण्डितः अभवत् इति कथा श्रूयते ।
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्