व्यामिश्रेणेव वाक्येन...

व्यामिश्रेणेव वाक्येन () इत्यनेन श्लोकेन अर्जुनः स्वमोहितबुद्धिविषये चिन्तां प्रदर्शयति । पूर्वस्मिन् श्लोके अर्जुनः ज्ञानकर्मणोः मध्ये किं श्रेष्ठम् इति पृष्ट्वा अत्र श्रीकृष्णं स्पष्टं मार्गं प्रदर्शयितुं निवेदयति । सः कथयति यद्, मिश्रवचनैः मे बुद्धिः मोहयुक्तेव अस्ति । अतः तत् निश्चयेन कथयतु, येनाहं कल्याणं प्राप्तुं शक्नुयामेति ।

व्यामिश्रेणेव वाक्येन...


कल्याणमार्गं दर्शयितुं प्रार्थना
श्लोकसङ्ख्या३/२
श्लोकच्छन्दःअनुष्टुप्छन्दः
पूर्वश्लोकःज्यायसी चेत्कर्मणस्ते...
अग्रिमश्लोकःलोकेऽस्मिन् द्विविधा निष्ठा...

श्लोकः

गीतोपदेशः
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चत्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥

पदच्छेदः

व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे तत् एकं वद निश्चत्य येन श्रेयः अहम् आप्नुयाम् ॥ २ ॥

अन्वयः

व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव । तद् येन अहं श्रेयः आप्नुयाम् (तादृशम्) एकं निश्चित्य वद ।

शब्दार्थः

अन्वयःसरलसंस्कृतम्
व्यामिश्रेण इवसीर्णेन इव
वाक्येनवचनेन
मेमम
बुद्धिम्मतिम्
मोहयसिभ्रामयसि
तत्तस्मात्
एकम्तादृशं प्रमुखम् (मार्गम्)
निश्चित्यनिर्धार्य
वदकथय
येन अहम्येन अहम्
श्रेयःअतिशयेन प्रशस्तम्
आप्नुयाम्प्राप्नुयाम् ।

व्याकरणम्

सन्धिः

  1. मोहयसीव = मोहयसि + इव – सवर्णदीर्घसन्धिः
  2. तदेकम् = तत् + एकम् – जश्त्वसन्धिः
  3. श्रेयोऽहम् = श्रेयः + अहम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

कृदन्तः

  1. निश्चित्य = निस् + चि + ल्यप्

तद्धितान्तः

  1. श्रेयः = प्रशस्य + ईयसुन् (अतिशये) । (श्र इति आदेशः)

अर्थः

हे कृष्ण ! ज्ञानस्य श्रेष्ठत्वेन कर्मणश्च कर्तव्यत्वेन उपदिशन् मां भ्रामयन् असि । अतः येन अहं श्रेयः प्राप्नुयां तन्निश्चित्य वद ।

भावार्थः

'व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे' – त्वं कर्म कुरु इति कदाचित् कथयति । कदाचित् ज्ञानाश्रयं स्वीकर्तुं कथयति । भवतः अनेन मिश्रवचनेन मम बुद्धिः मोहिता भवन्ती अस्ति । अर्थाद् अहं स्पष्टतया अवगन्तुं न शक्नोमि यद्, मया कर्म करणीयम् उत ज्ञानशरणं स्वीकरणीयम् इति । अत्र इव इत्यस्य पदस्य वारद्वयम् उपयोगे कृते अर्जुनस्य श्रीकृष्णं प्रति श्रद्धा प्रत्यक्षा भवति । श्रद्धात्वादेव अर्जुनः भगवतः वचनेषु विश्वसति । सः अपि अवगच्छति यद्, भगवान मम बुद्धिं न मोहयति, अपि तु अहं स्वयं भगवतः वचनानि मिश्रवत् पश्यामि । सः मम बुद्धिं न मोहयति इति ।

'तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्' – मम कल्याणं ज्ञानेन उत कर्मणा भविष्यति इत्येतयोः एकं वदतु, यस्मिन् मे कल्याणं भवेत् । अर्जुनः पूर्वमपि स्वकल्याणस्य इच्छां कुर्वन् अवदत्,[१] अत्रापि तदेव वदति ।

शाङ्करभाष्यम्

व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान्, तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसि इव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एकपुरुषानुष्ठानासम्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं तदपि नोपपद्यते ॥यदि हि कर्मिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात्, तत् कथं तयोः ‘एकं वद’ इति एकविषयैव अर्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ‘अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि,नैव द्वयम्’ इति, येन उभयप्राप्त्यसम्भवम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥

भाष्यार्थः

तथा च – यद्यपि भगवान् स्पष्टवक्ता अस्ति, तथापि मां मन्दबुद्धिं भगवतः वाक्यानि मिश्रभावयुक्तानि प्रतीयन्ते । तैः मिश्रवचनैः मे बुद्धिः मोहिता इति अनुभवामि (अहम् अर्जुनः) । वस्तुतः भवान् तु मे बुद्धेः मोहं दूरीकर्तुं प्रवृत्तः अस्ति । तर्हि भवान् मे बुद्धिं कथं मोहितं कर्तुं शक्नुयात् ! अतः कथयामि यद्, भवान् मम बुद्धिं मोहितवत् करोति इति । भवान् यदि भिन्नैः अधिकारिभिः क्रियमाणस्य ज्ञानकर्मणोः अनुष्ठानस्य एकेन पुरुषेण औचित्यं स्वीकरोति, तर्हि तयोः ज्ञानकर्मणोः कस्यचित् एकस्य निश्चयं कृत्वा मां कथयतु, येनाहं मे कल्याणं साधयितुं शक्नोमि । अर्थात् भवान् एव चिन्तयतु यद्, मम (अर्जुनस्य) बुद्ध्यानुरूपं, शक्त्यानुरूपम्, अवस्थानुरूपं च ज्ञानम् उचितम् उत कर्म इति ।

यदि कर्मनिष्ठायां गौणरूपेणापि ज्ञानविषये भगवान् अवदिष्यत्, तर्हि 'उभयोः एकं कथयतु' इत्येवम् एकस्य विषये श्रोतुम् अर्जुनस्य इच्छा भवेत् ? यतो हि ज्ञानकर्मणोः अहं त्वम् एकमेव कथयिष्यामि, न तु उभौ इति तु भगवान् क्वापि नावदत् । एवम् अर्जुनस्य मनसि उभयोः प्राप्तिः असम्भवः इति विश्वासः आसीत्, अतः एकस्य विषये एव श्रोतुं सः अप्रार्थयत् ।

रामानुजभाष्यम्

अतो व्यामिश्रवाक्येन मां मोहयसि इव इति मे प्रतिभाति तथा हि आत्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपाया ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनं तद् एव कुरु इति वाक्यं विरुद्धं व्यामिश्रम् एव तस्माद् एकम् अमिश्ररूपं वाक्यं वद येन वाक्येन अहम् अनुष्ठेयरूपं निश्चित्य आत्मनः श्रेयःप्राप्नुयाम्।

भाष्यार्थः

एतादृशैः मिश्रैः वचनैः भवान् मां मोहयति इति प्रतीयते । यतो हि समस्तेभ्यः इन्द्रियव्यापारेभ्यः उपरतिः एव आत्मसाक्षात्मकारस्य साधनभूतायाः ज्ञाननिष्ठायाः स्वरूपम् अस्ति । परन्तु भवान् तस्मात् विपरीतं कर्म एव साधनत्वेन प्रदर्शयन् "कर्म कुरु" इति आज्ञापयति । भवतः एतत्कथनं परस्परं विरुद्धं, व्यामिश्रं च अस्ति । अतः भवान् एकप्रकारकस्य स्पष्टं वचनं वदतु, येन अहं साधनस्य स्वरूपं निश्चत्य आत्मकल्याणं प्राप्नुयाम् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
ज्यायसी चेत्कर्मणस्ते...
व्यामिश्रेणेव वाक्येन...अग्रिमः
लोकेऽस्मिन् द्विविधा निष्ठा...
कर्मयोगः

१)ज्यायसी चेत्कर्मणस्ते...२)व्यामिश्रेणेव वाक्येन...३)लोकेऽस्मिन् द्विविधा निष्ठा...४)न कर्मणामनारम्भात्...५)न हि कश्चित्क्षणमपि...६)कर्मेन्द्रियाणि संयम्य...७)यस्त्विन्द्रियाणि मनसा...८)नियतं कुरु कर्म त्वं...९)यज्ञार्थात्कर्मणोऽन्यत्र...१०)सहयज्ञाः प्रजाः सृष्ट्वा...११)देवान्भावयतानेन...१२)इष्टान्भोगान् हि वो देवा...१३)यज्ञशिष्टाशिनः सन्तो...१४)अन्नाद्भवन्ति भूतानि...१५)कर्म ब्रह्मोद्भवं विद्धि...१६)एवं प्रवर्तितं चक्रं...१७)यस्त्वात्मरतिरेव स्यात्...१८)नैव तस्य कृतेनार्थो...१९)तस्मादसक्तः सततम्...२०)कर्मणैव हि संसिद्धिम्...२१)यद्यदाचरति श्रेष्ठः...२२)न मे पार्थास्ति कर्तव्यं...२३)यदि ह्यहं न वर्तेयं...२४)उत्सीदेयुरिमे लोका...२५)सक्ताः कर्मण्यविद्वांसो...२६)न बुद्धिभेदं जनयेद्...२७)प्रकृतेः क्रियमाणानि...२८)तत्त्ववित्तु महाबाहो...२९)प्रकृतेर्गुणसम्मूढाः...३०)मयि सर्वाणि कर्माणि...३१)ये मे मतमिदं नित्यम्...३२)ये त्वेतदभ्यसूयन्तो...३३)सदृशं चेष्टते स्वस्याः...३४)इन्द्रियस्येन्द्रियस्यार्थे...३५)श्रेयान्स्वधर्मो विगुणः३६)अथ केन प्रयुक्तोऽयं...३७)काम एष क्रोध एष...३८)धूमेनाव्रियते वह्निः...३९)आवृतं ज्ञानमेतेन...४०)इन्द्रियाणि मनो बुद्धिः...४१)तस्मात्त्वमिन्द्रियाण्यादौ...४२)इन्द्रियाणि पराण्याहुः...४३)एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्