शारदालिपिः

शारदालिपिः (शारदा - 𑆯𑆳𑆫𑆢𑆳 वा 𑆯𑆳𑆫𑆢𑆳 𑆬𑆴𑆥𑆴, Śāradā script) कश्मीरप्रदेशस्य एका पुरातनी लिपिः । इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।

शारदालिपिः
𑆯𑆳𑆫𑆢𑆳
शारदालिपिना लिखितभूर्जपत्रमातृका(Birch bark manuscript):'उत्पत्तिप्रकरणम्' इति
प्रकारःअबुगिडा लेखनप्रकारः
भाषा(ः)संस्कृतम्, कश्मीरीभाषा
स्थितिकालःप्रायः क्रैस्तवीय ६००तः १८०० शतकम्
जननस्रोतः
जन्यलिपयःगुरुमुखीलिपिः, टाकरीलिपिः, लहान्दा
समकालीनलिपिःनागरीलिपिः, सिद्धमातृकालिपिः
लेखनगतिःवर्णानां वामतो गतिः
युनिकोड सूचीUnicode.org chart

परिचयः

शारदालिपेः उपयोगः भारतीय-उपमहाद्वीपस्य उत्तरपश्चिमप्रदेशपर्यन्तं सीमितः आसीत् । शारदालिपेः उद्भवकालः प्रायः क्रैस्तवीय तृतीयशतके अभूत् । क्रैस्तवीय नवशतकतः पञ्चदशशतकपर्यन्तम् अस्याः लिपेः स्वर्णयुगः आसीत् । चीनदेशीयपर्याटकः 'अल् बरुणी' स्वभारतभ्रमणविषयकग्रन्थे अस्याः लिपेर्नाम सिद्धमातृका इति उल्लिखितवान् । अस्य कारणमासीत् शारदावर्णमालायाः प्रारम्भः सर्वदा "ओम् स्वस्ति सिद्धम्" इति लेखनपश्चात् एव भवति । कश्मीरप्रदेशस्य अधिष्ठात्री देवी 'शारदा' ततः प्रदेशस्य नाम 'शारदादेशः' 'शारदमण्डलम्' वा उच्यते स्म । वस्तुतः शारदादेशे उयुज्यमाना लिपिः 'शारदा' नामप्राप्ता इति विद्वज्जनमतम् । पञ्चदशशतकानन्तरं शारदालिपेः प्रयोगः बहुन्यूनः अभवत् । नागरी-गुरुमुखी-टाकरीलिपीणां जननस्रोतः एषा एव लिपिः ।

वर्णमाला

स्वरवर्णाः

a अ i इ u उ e ए o ओ
ā आ ī ई ū ऊ ai ऐ au औ
aṃ अं aḥ अः

व्यञ्जनवर्णाः

k क kh ख g ग gh घ
c च ch छ j ज jh झ ñ ञ
ṭh ḍh
t त th थ d द dh ध n न
p प ph फ b ब bh भ m म
y य r र l ल v व
ś श s स h ह

लिपेरुत्पत्तिः

दक्षिण-एशियाभूखण्डस्य हिमालयपार्वत्यप्रदेशस्य प्राचीनलिपिषु 'शारदा' अतीव समादृता । उत्तरब्राह्मीलिपितः अस्याः लिपेर्जन्म जातम् इति विदुषां मतम् । एषा लिपिः बहुषु देशेषु (पाकिस्ताने,अफगानिस्ताने, कज़ाकिस्ताने अपि) प्रचलिता आसीत् । शारदालिपिना रचिताः बहुपाण्डुलिपयः विभिन्नदेशेषु विद्यन्ते । शारदालिपिना रचितमातृकानां सम्पादनतः तथा शिलालेखोद्धारतः हिमालयप्रदेशस्य संस्कृतिः इतिहासश्च इतोपि सुस्पष्टतया ज्ञायते ।

विस्तारः गुरुत्वञ्च

काबुलप्रदेशे (वर्तमाने अफगानिस्ताने) प्राप्तशिलालेखतः प्रसिद्धस्य हिन्दुराजवंशस्य विषये ज्ञायते । 'ओहिन्द'-'गिल्गिट्' राजवंशयोः इतिहासोऽपि अस्याः लिपेः आविष्करणानन्तरं ज्ञातः । क्रैस्तवीय नवमशतकानन्तरवर्तीकाले भाषासाहित्ये तथा विविधशास्त्रेषु कश्मीरप्रदेशः मूर्धनीरूपेण स्थितः आसीत् एवं बह्व्यः कृतयः अनया लिपिना रचिताः आसन् । न तु केवलं शास्त्रकृतयः राजाभिलेखा-राजमुद्रास्वपि शारदालिपेः प्रयोगः आसीत् । एतादृशानि गूढकारणानि अस्याः लिपेः सूक्ष्माध्ययनं प्रति शोधकर्तारं प्रेरयति । प्राचीनब्राह्मी तथा खरोष्ठीलिपिसदृशः अस्याः लिपेर्कालः प्रारम्भिकमध्ययुगे आसीत् । प्राचीनयुगतः मध्ययुगीय-सामाजिकपरिवर्तनकाले एषा लिपिः संयोगसूत्ररूपेण स्थिता । तदानीन्तनस्य हिमालयप्रदेशस्य साहित्य-संस्कृतेः वाहिका एषा एव लिपिः आसीत् । दौर्भाग्यवशतः क्रैस्तवीय पञ्चदश-शतकानन्तरवर्तीकाले एषा गुरुत्वपूर्णा लिपिः लुप्ता जाता ।

प्रतिनिधिलिपयः

ब्राह्मीलिपिः प्राचीनभारतस्य राष्ट्रियलिपिरासीत् । एषा लिपिः समयावर्तनेन सह बहुपरिवर्तनस्य स्तराणाम् अतिक्रमणं कृतवती । शारदालिपेरपि विकृतयः आगतासीत् ततः पृथक् लिपीनां जननम् अभवत् । शारदालिपेः प्रतिनिधिलिपयः यथा- नागरीलिपिः, बाङ्गलालिपिः, ओडियालिपिः, माराठीलिपिः इत्याद्याः । वस्तुतः एताः लिपयः उत्तरब्राह्मीतः विकासिताः आसन् ।

शारदालिपेः निदार्शनानि

शारदालिपेः यूनिकोड संङ्केतः

शारदालिपिः
Unicode.org chart (PDF)
 0123456789ABCDEF
U+1118x𑆀𑆁𑆂𑆃𑆄𑆅𑆆𑆇𑆈𑆉𑆊𑆋𑆌𑆍𑆎𑆏
U+1119x𑆐𑆑𑆒𑆓𑆔𑆕𑆖𑆗𑆘𑆙𑆚𑆛𑆜𑆝𑆞𑆟
U+111Ax𑆠𑆡𑆢𑆣𑆤𑆥𑆦𑆧𑆨𑆩𑆪𑆫𑆬𑆭𑆮𑆯
U+111Bx𑆰𑆱𑆲𑆳𑆴𑆵𑆶𑆷𑆸𑆹𑆺𑆻𑆼𑆽𑆾𑆿
U+111Cx𑇀𑇁𑇂𑇃𑇄𑇅𑇆𑇇𑇈
U+111Dx𑇐𑇑𑇒𑇓𑇔𑇕𑇖𑇗𑇘𑇙
टिप्पणी
१.^ यूनिकोड संस्करणम् ६.१
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=शारदालिपिः&oldid=466537" इत्यस्माद् प्रतिप्राप्तम्