स्वर्णरथः (गोल्डन् चारियट्)


गोल्डन् चारियट् (कर्णाटकस्य वैभवोपेतं धूमशकटम्)

एतत् वाहनं प्रवासोद्यमविभागेन अभिमानेन यात्रिणां सौलभ्याय कल्पितम् विशेषधूमशकटयानम् अस्ति । अस्य नाम सुवर्णरथम् इत्यस्ति । यथा महाराष्ट्रराज्ये डेक्कन् ओडिस्सी, राजास्थानराज्यस्यप्यालेस् आन् व्हील्स्’ तथा सुवर्णरथयानम् सुव्यवस्थितम् अस्ति । अस्य संरचनायाः कृते २६ कोटिरुप्यकाणि व्ययीकृतानि सन्ति ।अतिसुन्दरम् धूमशकटयानमेतत् १९ विभागयुक्तम् अस्ति । याने एव उपहारगृहं , सभाभवनं, व्यायामशाला इत्यादयः विभागाः सन्ति । आहत्य १०३ जनाः एव अनेन यानेन गन्तंथ शक्नुवन्ति । प्रत्येकं प्रवासिनः कृते जनद्वयं सेवानिरतं भवति ।एतत् यानं बेङ्गळूरुतः मैसूरु हासन हम्पी गदग् हुब्बळ्ळीमार्गात् गोवाराज्यस्य सम्पर्कं कल्पयति । मार्गे श्रीरङ्गपट्टणम् बेलूरुहळेबीडु श्रवणबेळगोळ ऐहोळे बादामी पट्टदकल्लु प्रदेशदर्शनमपि भवति । अस्य प्रवासस्य ६२० कि.मीमार्गः । सप्तदिनेषु एकवारं प्रवासः समाप्तः भवति । षण्णां रात्रीणां शयनव्यवस्था धूमशकटयाने एव भवति । विशेषयात्रिकानामेव एतत् सौकर्यम् उपयुक्तम् अस्ति । मूल्यं च अधिकं भवति । क्रिस्ताब्दे २००८ तमे एतत् यानम् कार्यरतम् अभवत् ।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्