इन्द्रियाणि मनो बुद्धिः...
उपकरण
सामान्य
मुद्रणम्/निर्यातः
( ( शृणु))
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चत्वारिंशत्तमः (४०) श्लोकः ।
इन्द्रियाणि मनः बुद्धिःअस्य अधिष्ठानमुच्यते एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥
इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते । एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति ।
अन्वयः | सरलसंस्कृतम् |
इन्द्रियाणि | नेत्रादीनि |
मनः | चित्तम् |
बुद्धिश्च | धीः च |
अस्य | एतस्य कामस्य |
अधिष्ठानम् | आश्रयः |
उच्यते | कथ्यते |
एषः | एषः कामः |
एतैः | एभिः |
ज्ञानम् | ज्ञानम् |
आवृत्य | आच्छाद्य |
देहिनम् | शरीरिणम् |
विमोहयति | विविधं मोहयति । |
पञ्चेन्द्रियाणि, मनः, बुद्धिः च कामस्य आश्रयाः सन्ति । एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरिणं विमोहयति ।
किमधिष्ठानः पुनः कामो ज्ञनस्यावणत्वेन वैरी सर्वस्येत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने सुख्न शत्रुनिबर्हणं कर्तुं शक्यत इति-इन्द्रियाणीति। इन्द्रियाणिमनो बुद्धिश्चास्य कामस्याधिष्ठानमाश्रय उच्यते, एतैरिन्द्रियादिभिराश्रयैर्विमोहयति विविधं मोहयत्येष कामो ज्ञानमावृत्याच्छद्य देहिनं शरीरिणम्।।40।।
|