आग्नेयभाषाः

महाद्वीपीय आग्नेयजम्बुद्वीपस्य भाषाकुटुम्बः

आग्नेयभाषाः (आस्ट्रो-एशियाटिक वा मोन्-ख्मेर् इति अपि ज्ञायते) आग्नेयजम्बुद्वीपे मुख्यभूमौ दक्षिणजम्बुद्वीपे च विशाला भाषाकुटुम्बः । एताः भाषाः सम्पूर्णे थाईलैण्डदेशे, भारते, बाङ्गलादेशे, नेपालदेशे, चीनदेशस्य दक्षिणभागे च विकीर्णाः सन्ति । आग्नेयभाषायाः वक्तारः प्रायः ११.७ कोटिः (११७ मिलियन्) सन्ति ।[१] एतेषु भाषासु केवलम् वियतनामी, ख्मेर्, मोन् च भाषासु दीर्घकालिकः अभिलेखितः इतिहासः अस्ति । केवलम् द्वयोः एव आधुनिक राष्ट्रभाषारूपेण आधिकारिकपदवी अस्ति - चम्पादेशे (वियतनामदेशे) वियतनामीभाषा, कम्बोडियादेशे ख्मेरभाषा । मोन् म्यानमारदेशे थाईलैण्डदेशे च मान्यताप्राप्ता देशीयाभाषा अस्ति । म्यानमारदेशे वाभाषा वाराज्यस्य वास्तविक-आधिकारिकभाषा अस्ति । सान्तालीभाषा भारतस्य २२ अनुसूचितभाषासु अन्यतमा । शेषभाषाः अल्पसङ्ख्यकसमूहेन भाष्यन्ते, एतेषां आधिकारिकपदवी नास्ति च ।

आग्नेय
आस्ट्रो-एशियाटिक
मोन्-ख्मेर्
भौगोलिकविस्तारःआग्नेय, दक्षिण, पूर्वजम्बुद्वीपः
भाषायाः श्रेणीकरणम्विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाःआद्यआग्नेय
उपश्रेण्यः
मुण्डा
खासि–पैलुङ्गिक
ख्मिक
मङ्ग्
पाकनिक
वियतीय
कट्विक
बाह्नरिक
ख्मेर
पीरिक
मोनिक
अस्लियन
निकोबारी
आइसो ६३९-५:aav

आग्नेयभाषाः

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=आग्नेयभाषाः&oldid=467218" इत्यस्माद् प्रतिप्राप्तम्