थियोफ्रास्टस्

(कालः – क्रि.पू.३७२ तः क्रि.पू.२८७)

थियोफ्रास्टस्
Statue of Theophrastus, Orto botanico di Palermo
जननम्c. 371 BC
Eresos
मरणम्c. 287 BC
Athens
कालःAncient philosophy
क्षेत्रम्Western Philosophy
SchoolPeripatetic school
मुख्य विचार:Botany, Ethics, Grammar, History, Logic, Metaphysics, Natural History, Physics
प्रमुख विचारःDeveloped the philosophy of Aristotle

अयं थियोफ्रास्टस् (THEOPHRASTUS) सस्यविज्ञानस्य जनकः । अयं ग्रीस्-देशस्य लेस्बास्-प्रदेशे क्रि.पू.३७२ तमे वर्षे जन्म प्राप्नोत् । ततः बाल्ये एव अथेन्स्-नगरं गत्वा प्लेटो-अकादमीं (लैसियम्) प्राविशत् । थियोफ्रास्टस् प्रथमवारम् अरिस्टाटलेन लेस्बास्-नगरे एव अमिलत् । तदनन्तरम् आजीवनं तयोः महान् स्नेहः आसीत् । थियोफ्रास्टस्य वास्तविकं नाम “टैर्टमस्” इति । अरिस्टाटल् एव तस्य नाम “थियोफ्रास्टस्” इति परिवर्तनम् अकरोत् । “थियोफ्रास्टस्” इत्यस्य शब्दस्य अर्थः “अद्भुतः वक्ता” इति ।

अरिस्टाटलस्य निवृत्तेः अनन्तरं थियोफ्रास्टस् एव (मरणपर्यन्तम् अपि) ३५ वर्षाणि यावत् अरिस्टाटलस्य ग्रन्थालयस्य साहाय्येन सर्वाः शालाः (लैसियम्) सञ्चालितवान् । अयं थियोफ्रास्टस् सस्यशास्त्रं गभीरतया अधीतवान् । ५०० सस्यप्रभेदान् सविवरणम् उल्लिखितवान् अस्ति । अरिस्टाटल् यथा “प्राणिविज्ञानस्य अध्वर्युः” इति प्रसिद्धः तथैव थियोफ्रास्टस् “सस्यविज्ञानस्य अध्वर्युः” इति प्रसिद्धः अस्ति । तेन थियोफ्रास्टसेन लिखितः “सस्यानां परीक्षा” इत्याख्यः ग्रन्थः अद्यापि कश्चन अविस्मरणीयः विक्रमः एव । अयं थियोफ्रास्टस् क्रि.पू.२८७ तमे वर्षे मरणम् अवाप्नोत् ।

बाह्यसम्पर्कतन्तुः

Historia plantarum, 1549
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=थियोफ्रास्टस्&oldid=481604" इत्यस्माद् प्रतिप्राप्तम्