पटना

बिहारराज्यस्य राजधानी
(पाटना इत्यस्मात् पुनर्निर्दिष्टम्)

पटना बिहारराज्यस्‍य राजधानी अस्ति । पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तनपटनानगरस्य अधः सन्ति ।बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः ।कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नलन्दा इत्यादीनि ।

पटना

पाटलीपुत्रम्
महानगरम्
वामतः दक्षिणं: बुद्धमेमोरियल् पार्क्, तक्थ् श्री पाटनासाहिब्, गोपुरम्, पाटनानस्तुसङ्ग्रहालयः, हुतात्मस्मारकम्
वामतः दक्षिणं: बुद्धमेमोरियल् पार्क्, तक्थ् श्री पाटनासाहिब्, गोपुरम्, पाटनानस्तुसङ्ग्रहालयः, हुतात्मस्मारकम्
देशः भारतम्
राज्यम्बिहारराज्यम्
क्षेत्रम्मगध
विभागपटना
मण्डलम्पटना
Ward72 wards
Government
 • Bodyपटना नगर निगम
 • महापौरःसीता साहू (NDA)
Area
 • महानगरम्२५० km
Elevation
५३ m
Population
 (2011)
 • महानगरम्१६,८३,२००
 • Density१,८०३/km
 • Metro
२०,४६,६५२
भाषाः
 • अधिकृताःहिन्दी
 • अतिरिक्त अधिकृताःउर्दू
 • क्षेत्रियमगही
Time zoneUTC+५:३० (भारतीयप्रमाणसमयः)
पत्रसङ्केतसङ्ख्या
8000XX
दूरवाणी+91-612
ISO 3166 codeIN-BR-PA
Vehicle registrationBR 01
Sex ratio1.13
साक्षरता84.71% (८४.७१%)
Lok Sabha constituencyPatna Parliamentary Constituency, Pataliputra Parliamentary Constituency, Patna Sahib Parliamentary Constituency
Vidhan Sabha constituencyBakhtiyarpur(180), Digha(181), Bankipur(182), Kumhrar(183), Patna Sahib(184), Fatuha(185), Danapur(186), Maner(187), Phulwari-SC(188)
Planning agencyPatna Regional Development Authority
Civic agencyPatna Municipal Corporation
Distance from Delhi1,015 किलोमीटर (631 मील) NE (land)
ClimateCwa (Köppen)
Precipitation1,100 मिलीमीटर (43 इंच)
Avg. annual temperature26 °से (79 °फ़ै)
Avg. summer temperature30 °से (86 °फ़ै)
Avg. winter temperature17 °से (63 °फ़ै)
Websitewww.patna.nic.in

धूमशकटमार्गः

पूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।

विमानमार्गः

देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पटना&oldid=466777" इत्यस्माद् प्रतिप्राप्तम्