पिप्पली

इदं पिप्पलीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । वस्तुतः इयं काचित् लता । तस्मात् कारणात् आधारम् अवलब्य एव वर्धते । अस्याः पिप्पलीलतायाः पर्णानि २ – ३ अङ्गुलं यावत् विशालानि दीर्घाणि च भवन्ति । अस्याः फलानि लघ्वाकारकाणि, ०.५ – १ अङ्गुलं यावत् व्यासयुक्तानि च भवन्ति । तानि वर्धनस्य अनन्तरं (पक्वानन्तरं) कृष्णवर्णीयानि भवन्ति ।

Long pepper
पिप्पल्याः पर्णानि फलानि च
पिप्पल्याः पर्णानि फलानि च
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Magnoliids
गणःPiperales
कुलम्Piperaceae
वंशःPiper
जातिःP. longum
द्विपदनाम
Piper longum
L.

इतरभाषाभिः अस्य पिप्पलीसस्यस्य नामानि

इदं पिप्पलीसस्यम् आङ्ग्लभाषया “लाङ्ग् पेप्पर्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति B. N. Piper Longum अथवा N. O. Piperaceve इति । हिन्दीभाषया इदं पिप्पलीसस्यं “पिप्पल्” इति, तेलुगुभाषया “पिप्पळ्ळु” इति, तमिळ्भाषायां “पिप्पली” इति, कन्नडभाषया “हिप्पलि” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पिप्पलीसस्यस्य प्रयोजनानि

अस्य पिप्पलीसस्यस्य रसः कटुः । अनुरसः मधुरः च । इदं स्निग्धं, तीक्ष्णंचापि । इदम् अनुष्णवीर्ययुक्तं, विपाके मधुरं भवति ।

१.पिप्पलीसेवनेन अग्निवृद्धिः भवति ।
२.अस्य रसायनं यकृत्-विकारान्, क्रिमिबाधां च निवारयति ।
३.इदं रक्तवर्धकम् अपि । रक्तहीनतया पीड्यमानानाम् उत्तमम् ।
४.कासेन, श्वासरोगेन पीड्यमानाः अस्य उपयोगं न कुर्युः ।
५.इदं मूत्रं वर्धयति, ज्वरं निवारयति चापि ।
६.इदं गर्भाशयं सङ्कोचयति अपि । अतः प्रसवानन्तरं सेवनं हितकरं भवति ।
७.अस्य स्वरसः १ – २ ग्रां, चूर्णं ५ ग्रां यावत् सेवितुं शक्यते ।
८.अनेन निर्मितानि “त्रिकटुचूर्णम्”, "पञ्चकोलचूर्णम्”, "सीतोपलादिचूर्णम्” चापि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
शुष्काणि पिप्पलीगुच्छानि
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पिप्पली&oldid=395850" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्