भारतीयवायुसेना

भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः । सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति । अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत् । सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत् । सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपर्णं योगदानम् आसीत् । भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम् । स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति । एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत् । भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रमे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत् । कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः । भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति । वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनपतिः वायुसेनायाः नेता भवति । भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति । अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति । सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति । इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत् । [४]


भारतीयवायुसेना

Indian Air Force


निर्माणम्8 October 1932
देशः भारतम्
भूमिकाAir superiority, reconnaissance, close air support
सैन्यबलम्127,000 personnel
Approx. 1,622 aircraft
विभागीयांशःMinistry of Defence
Indian Armed Forces
HeadquartersNew Delhi, Delhi, India
ध्येयवाक्यम्"नभःस्पृशं दीप्तम्" ("Nabhaḥ spr̥śaṁ dīptam") "Touch the Sky with Glory" [१]
वर्णः
वार्षिकोत्सवःAir Force Day: 8 October[२]
युद्धानि
जालस्थानम्indianairforce.nic.in
सेनानायकाः
Chief of Air StaffAir Chief Marshal Arup Raha
Vice Chief of Air StaffAir Marshal RK Sharma[३]
विशिष्टाः सेनानायकाःMarshal of the Indian Air Force Arjan Singh
Air Chief Marshal Pratap Chandra Lal
Air Marshal Subroto Mukherjee
चिह्नम्
Air Force Ensign
RoundelRoundel
Fin flashThe IAF Fin Flash
आश्रये विद्यमानानि वायुयानानि
आक्रमणम्Jaguar, MiG-27, Harpy
वैद्युतिकविमानानिA-50E/I, DRDO AEW&CS, Ilyushin A-50
युद्धविमानानिSu-30MKI, Mirage 2000, MiG-29, HAL Tejas, MiG-21
हेलिकाप्टर्Dhruv, Chetak, Cheetah, Mi-8, Mi-17, Mi-26, Mi-25/35
सर्वेक्षकविमानम्Searcher II, Heron
प्रशिक्षकविमानम्Hawk Mk 132, HPT-32 Deepak, HJT-16 Kiran, Pilatus C-7 Mk II
कार्गो-विमानम्C-17 Globemaster III, Il-76, An-32, HS 748, Do 228, Boeing 737, ERJ 135, Il-78 MKI, C-130J

उद्देशाः

गतकतिपयवर्षेभ्यः वायुसेनायाः विकासः । (१) सा.श.१९३३-१९४१ (२) सा. श.१९४२ -१९४५ (३) सा.श.१९४७-१९५० (४)सा. श.१९५०तः वर्तमानः[५]

भारतीयवायुसेनायाह् मिशन् सशस्त्रबलस्य सा.शा.१९४७तमस्य अधिनियमानुसारं परिभाषितम् अस्ति । भारतीयसंविधानस्य सेनायाः च सा.श.१९५०तमस्य अधिनियमानुसारं वायुयुद्धक्षेत्रे- सर्वस्थानैः सहितं भारतस्य संरक्षणम् । देशरक्षने सदा अन्नद्दा स्यात् । एवं सर्वापायेभ्यः भारतीयवैमानिकक्षेत्रस्य संरक्षणम् अपि अस्याः दायित्वम् । सशस्त्रबलानाम् अन्यविभागनामपि साहाय्याचरणं प्राथमिकोद्देशेषु अन्यतमः । भारतीयवायुसेन युद्धरङ्गे भारतीयसेनायः सैनिकानां वैमानिककौशलस्य रणनैतिक् एर्लिफ्ट् क्षमताप्रदानं च करोति । भारतीयवायुसेन एकीकृतान्तरिक्षप्रकोष्टैः सह अन्यशाखाः भारतीयसशस्त्रबलम्, भारतीयान्तरिक्षानुसन्धानसङ्घटनम्, (इसरो) इत्यदिभिः सह अन्तरिक्षाधारितसम्पत्तीनाम् उपयोगं प्रभावरूपेण कर्तुं सैनिकदृष्ट्या साहाय्यम् आचरति । भारतीयवायुसेना भारतीयसशस्त्रबलानाम् अन्यशाखाभिः सहयोगं यच्छन्ती एव अन्यविधकार्याणि करोति । आपत्सु जनान् सम्पदः च रक्षितुं रक्षणसामग्रीणां वितरणं कर्तुं च यतते । दुर्घटनेषु सञ्जातेषु अन्वेषणसरक्षणाभियने सहायतां ददाति । सा.श. २००४तमवर्षे भारतीयवायुसेना सुनामी महाजञ्झावातेन सा.श. १९९८तमवर्षे गुजराजराज्यस्य चण्डमारुतेन प्राकृर्तिकापदि जनाः दुरवस्थाङ्गताः । तस्मादपायात् रक्षितुं वायुसेना आपरेशन् रूपेण व्यापकसाहाय्यं समाचरत् । भारतीयवायुसेना अन्यदेशियेषु प्राकृर्तिकापायेषु साहाय्यं यच्छति यथा अपरेशन् इन्द्रचाप इति नाम्ना श्रीलङ्कायां साहाय्यम् आचरितम् ।

इतिहासः

भारतीयवायुसेना (Air Force) स्कीन् कमिटि (Skeen Committee) द्वारा सा.श. १९२६तमवर्षे कृतसूचनानुसारं सा.श. १९३३तमवर्षस्य एप्रिल् प्रथमदिने भारतीयवायुसेनायाः उद्घाटनम् अभवत् । केचन वापिटिविमानानि (Wapiti) क्रानवेल्विमानानि च (Cranwel) प्रशिक्षितवैमानिकान् वायुसैनिकान् (airmen) च मेलयित्वा लघुसेना रचिता । ७८वर्षेषु भारतीयवायुसेना विशेषं विस्तारं प्रतिष्ठां च अवाप्नोत् । अद्य भारते देशे वायुसेन न केवलं सशस्त्रसेनासमूहः प्रत्युत देशस्य अनिवार्यं पृथक् अङ्गम् अस्ति । अपि आधुनिकवायुयानैः सुसज्जितानां वैमानिकानां साम्राज्यम् अस्ति ।

द्वितीयं विश्वयुद्धम् (सा.श.१९३९-१९४५)

वेस्टलैंड वापिटी,भारतीयवायुसेनायाः आरम्भिकविमानम् ।

भारतीयवायुसेनायाः घटनम् आङ्ग्लकालीनभारतस्य रायल् एर्फोर्स् कश्चित् सहायकः विमानदलरूपेण कृतम् ।[६] भारतीयवायुसेनाधिनिगमः सा.श. १९३२तमवर्षस्य अक्टोबर्मासस्य अष्टमे दिने आरब्धः ।[७] यस्य अधीनतायां रायल् एर्फोर्स् विभागस्य समवस्त्रं पदकं प्रतीकं चिह्नं स्वीकृतम् ।[८] सा.श. १९३३तमवर्षस्य एप्रिल् मासस्य प्रथमदिने वायुसेनायाः प्रथमं स्कवॉड्रन, स्कवॉड्रन क्र.-१ इत्यस्य चत्वारि वेस्ट्लैण्ड् वापिटी विमानेन सह पञ्चवैमानिकैः सह सङ्घटनं कृतम् । भारतीयवैमानिकानां नेतृत्वं फ्लैट् लेफ्तिनेण्ट् सेसिल् ब्रौशर् अन्तर्गतं कृतम् । [९] सा.श. १९४१तमवर्षपर्यन्तं स्कवॉड्रन क्र. १ भारतीयवायुसेना स्वयमेव स्कवॉड्रन आसीत् यस्मिन् विमानद्वयम् आगतम् ।[९] आरम्भे वायुसेनायां भूसेवा रसदशाखा इति केवलं शाखाद्वयम् आसीत् । द्वितीयमहायुद्धस्य पश्चात् भारतीयवायुसेनायाः लाञ्छनात् रक्तगोलचिह्नम् अपनीतम् । जपानीयानां हिनोमारु(उदयसूर्यस्य) चिह्नेन सह सादृश्यं भवति इति कारणेन एवं कृतम् । [८] सा.श. १९४३तमवर्षे वायुसेना संवर्धिता सप्त स्कवाड्रनस् अग्रे सा.श.१९४५तमवर्षे नव स्कवाड्रनस् युक्ता अभवत् । [९] भारतीयवायुसेनया अग्रे आगतां जपानीयसेनां विरुद्ध्य योद्धुं बङ्गालस्य साहाय्यम् आचरितम् । तत्र भारतीयवायुसेनया प्रथमवारं वैमानिकाकत्रमणम् अराकन इति स्थाने जपानीयसैन्यशिबिरे अकरोत् । अपि च भारतीयवायुसेनया मायी हङ्ग् सन्, उत्तरी थायलेण्डस्य चैङ्ग् मायी राये इत्यदिषु स्थानेषु अपि आक्रमणम् अकरोत् । अस्याः योगदानार्थं सा.श. १९४५तमवर्षे राजा षष्ठ जार्ज् इत्येषः सेनायै रायल् इति उपधिं दत्तवान् ।[१०]


बाह्यानुबन्धाः

टिप्पणी

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=भारतीयवायुसेना&oldid=484146" इत्यस्माद् प्रतिप्राप्तम्