लाल्गुडि जयरामन्

लाल्गुडि गोपाल ऐयर् जयरामन् (तमिळ: லால்குடி கோபால ஐயர் ஜெயராமன்) (सेप्टेम्बर् १७, १९३० - एप्रिल् २२, २०१३) भारतीयकर्णाटकसङ्गीतस्य प्रसिद्धः वयोलिन्वादकः ।[१][२][३][४][५] तस्य पुत्रः जि जे आर् कृष्णन्, पुत्री लाल्गुडि विजयलक्ष्मीः, अकाडेमीप्रशस्तिविजेत्री बाम्बे जयश्री च तस्य प्रसिद्धेषु शिष्येषु अन्यतमाः ।

लाल्गुडि जयरामन्
லால்குடி கோபால ஐயர் ஜெயராமன்
मूलतःचेन्नै, तमिळुनाडु, भारतम्
सङ्गीतविद्याकर्णाटकशास्त्रीयसङ्गीतम्
वृत्तिःकर्णाटकसङ्गीतम् वयोलिन्वादकः


पृष्ठभूमिका

श्रेष्ठवाग्गेयकर्तुः त्यागराजस्य शिष्यपरम्परायां प्राप्तजन्मा, श्री लाल्गुडि जयरामन् पितुः वि आर् गोपाल ऐयरस्य सकाशात् कर्णाटकसङ्गीतस्य उत्कृष्टं शिक्षणं प्राप्नोत् ।

साधना

स्वकीये द्वादशे वयसि जयरामन् सङ्गीतगोष्ठीषु वयोलिन्वादनम् आरब्धवान् । अरैकुडि रामानुज ऐयङ्गार्, चेम्बै वैद्यनाथ भागवतर्, सेम्मङुडि श्रीनिवास ऐयर्, जि एन् बालसुब्रह्मणियम्, मधुरै मणि ऐयर्, वोलेटि वेङ्गटेश्वरुलु, नेदुनुरि कृष्णमूर्ति, के वि नारायणस्वामी, महाराजपुरं सन्तानम्, डि के जयरामन्, बालमुरलीकृष्णः, टि वि शङ्करनारायणन्, टि एन् शेषगोपालन्, प्रसिद्धः वेणुवादकः एन् रमणि - इत्येतेषां सङ्गीतदिग्गजानां गोष्ठीषु जयरामन् अत्युत्तमं वाद्यसहकारं दत्तवान् अस्ति ।

प्राप्ताः प्रशस्तयः

'नादविद्यातिलकः', 'पद्मश्रीः', 'नादविद्यारत्नाकरः', 'वाद्यसङ्गीतकलारत्न', 'सङ्गीतचूडामणि'... इत्यादयः अनेकाः प्रशस्तयः तेन प्राप्ताः सन्ति ।

वैयक्तिकजीवनम्

लाल्गुडि जयरामनेन राजलक्ष्मीः परिणीता । पुत्रः कृष्णन्, पुत्री विजयलक्ष्मी च पितुः मार्गमेव अनुसृत्य प्रसिद्धौ वयोलिन्वादकौ स्तः ।एषः २०१३ तमस्य वर्षस्य एप्रिल्मासस्य २२ तमे दिनाङ्के चेन्नैनगरे दिवङ्गतः ।

रचनाः

वर्णाः

कृतिः - रागः

  • चलमु सेयनेला (तेलुगु) - वलजि
  • परम करुणा - गरुडध्वनि
  • नीवे गतियनि (तेलुगु) - नलिनकान्ति
  • नीवेगानि (तेलुगु) - मन्दारि
  • वल्लभ नायक - मोहनकल्याणि
  • देवी उन् पादमे (तमिल्) - देवगान्धारि
  • तिरुमाल् मरुगा उन् तिरुनामम् (तमिल्) - आन्दोलिका
  • उन्नै अन्रि (तमिल्) - कल्याणि

तमिल्-पदवर्णाः

  • इन्नुम् एन् मनम् - चारुकेशी
  • सेन्तिल् नगर -नीलाम्बरी
  • दीवर् मुनिवर् तोऴुम् - षण्मुखप्रिया
  • अङगयर्कण्णी - रागमालिका (नवरस पदवर्णा)

तिल्लान

तेलुगु

वसन्ताअमीर् कल्याणीआनन्द भैरवीरागेश्री

तमिल्

* दर्भारी कानडा* भागेश्री* सिन्दु भैरवी
* बेहाग्* कापी* तिलङ्ग्
* कानडा* कुन्तलवराली* बृन्दावनी
* कदनकुथूहलम्* यमुना कल्याणी* देष्
* वासन्ती* मदुवन्ती* मिस्र शिवऱञ्ज्नी
* चेन्चुरुट्टी* भीम्प्लास्* रेवती
* हंसानन्दी* कर्णरञ्ज्नी* नलिनकान्ति
* माण्ड्* बिन्दुमालिनी* कमास्

संस्कृतम्

  • द्विजावन्ती
  • पहाडी
  • मोहनकल्याणी

आधाराः

बाह्यानुबन्धाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्