१९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.प. विजयं अलभत्। १९९५ तमे वर्षे नवम्बर् मासे भा.ज.पा-महाअधिवेशने लालकृष्णाडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् अटलबिहारीवाजपेयी प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.प. विजयी अभूत्। अटलबिहारीवाजपेयी प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु संख्यागरिष्ठताऽभावात् १३ दिनानि अनन्तरम् एव तेषां सर्वकारस्य पतनम् अभवत्।
१९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीकुटः (राष्ट्रियजनतान्त्रिकमैत्रीकुटः) अकरोत्। निर्वाचने मैत्रीकुटस्य विजयः अभूत्। पुनः अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं लब्धवान् । परन्तु १९९९ तमे वर्षे मैत्रीकुटान्तर्वर्ती एकस्य पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य पतनम् अभवत्।
१९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटं सम्पूर्णजनसमर्थनम् अलभत्। अटलबिहारीवाजपेयी प्रधानमन्त्री तृतीयवारम् अभवत् तथा च लालकृष्णाडवाणी उपप्रधानमन्त्री अभूत्। मैत्रीकुटः सर्वम् आहत्य ३०३ तथा भा.ज.प. १८३ स्थलेषु विजीता आसन्। इदनीम् अटलबिहारीवाजपेयी-नेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।
२००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य अनपेक्षितपराजयः अभूत्।
मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटकविधानसभा प्रथमवारं विजीतः।
२००९ तमे वर्षे सामान्यनिर्वाचने भा.ज.पक्षस्य पुनः पराजयः अभवत्। तथा पक्षस्य ११६ स्थलेषु एव विजयः अभूत् ।
लोकसभानिर्वाचने भारतीयजनतापक्षः
वर्षः
लोकसभानिर्वाचनम्
विजीत-स्थलानि
परिवर्तनम्
% मतदानानि
मतदाने परिवर्तनम्
भारतीयलोकसभानिर्वाचनम्,१९८०
सप्तमलोकसभानिर्वाचनम्
०
०
०
०
भारतीयलोकसभानिर्वाचनम्, १९८४
अष्टमलोकसभानिर्वाचनम्
२
+२
७.७४%
+७.७४%
भारतीयलोकसभानिर्वाचनम्, १९८९
नवमलोकसभानिर्वाचनम्
८५
+८३
११.३६%
+३.६२%
भारतीयलोकसभानिर्वाचनम्, १९९१
दशमलोकसभानिर्वाचनम्
१२०
+३७
२०.११%
+८.७५%
भारतीयलोकसभानिर्वाचनम्, १९९६
एकादशलोकसभानिर्वाचनम्
१६१
+४१
२०.२९%
+०.१८%
भारतीयलोकसभानिर्वाचनम्, १९९८
द्वादशलोकसभानिर्वाचनम्
१८२
+२१
२५.५९%
+५.३०%
भारतीयलोकसभानिर्वाचनम्, १९९९
त्रयोदशलोकसभानिर्वाचनम्
१८२
०
२३.७५%
–१.८४%
भारतीयलोकसभानिर्वाचनम्,२००४
चतुर्दशलोकसभानिर्वाचनम्
१३८
-४४
२२.१६%
-१.६९%
भारतीयलोकसभानिर्वाचनम्,२००९
पञ्चदशलोकसभानिर्वाचनम्
११६
-२२
१८.८०%
-३.३६%
भारतीयलोकसभानिर्वाचनम्, २०१४
षोडशलोकसभानिर्वाचनम्
२८३
+१६७
भारतीयजनतापक्षस्य विचारधारा एवं राजनैतिकपरिप्रेक्षः