सामग्री पर जाएँ

निम्बूकरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
निम्बूकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Rosids
गणःSapindales
कुलम्Rutaceae
वंशःCitrus
जातिःC. × limon
द्विपदनाम
Citrus × limon, often given as C. limon
(L.) Burm.f.

निम्बूकस्य रसः एव निम्बूकफलरसः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । तस्य फलरसः च Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य निम्बूकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि निम्बूकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।

फलरसस्य निर्माणम्

अस्य निम्बूकफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् निम्बूकफलं प्रक्षाल्य यथा खण्डद्वयं स्यात् तथा कर्तनीयम् । अनन्तरं तस्य रसः निष्पीडनीयः । तस्मिन् रसे पर्याप्तमात्रेण जलं शर्करां च संस्थाप्य सम्यक् योजनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । कुत्रचित् शर्करायाः स्थाने लवणं योजयित्वा अपि पिबन्ति । कुत्रचित् निम्बूकस्य रसं निष्पीड्य तथैव संरक्षितम् अपि प्राप्यते । तदवसरे साक्षात् तं रसं जले संस्थाप्य शर्करा योजनीया तावदेव ।

चित्रवीथिका

"https://www.search.com.vn/wiki/?lang=sa&title=निम्बूकरसः&oldid=345361" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्