मरीचम्

एतत् मरीचम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । एतत् मरीचम् अपि सस्यजन्यः कश्चन आहारपदार्थः । एतत् मरीचम् आङ्ग्लभाषायां Black Pepper इति वदन्ति । एतत् मरीचं प्रायः भारते सर्वत्र उपयुज्यते एव । अस्य मरीचस्य मरिचक्नं, पलितं, श्यामं, वल्लीजं, कृष्णम्, ऊष्णं, यवनेष्टिः, शिरोवृत्तं, कोलकं, धर्मपत्तनम् इत्यादीनि अन्यानि अपि नामानि सन्ति इति धन्वनतरिकोषे उल्लिखितम् अस्ति । एतत् मरीचम् आहारत्वेन औषधत्वेन च अपि उपयुज्यते ।

मरीचम्/Black Pepper
Pepper plant with immature peppercorns
Pepper plant with immature peppercorns
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Magnoliids
गणःPiperales
कुलम्Piperaceae
वंशःPiper
जातिःP. nigrum
द्विपदनाम
Piper nigrum
L.[१]

कषायम्

मुख्यलेखः : मरीचकषायम्

मरीचं सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

आयुर्वेदस्य अनुसारम् अस्य मरीचस्य स्वभावः

एतत् मरीचं कटुतिक्तरसयुक्तम् । एतत् पचनार्थं लघु । मरीचम् उष्णवीर्यं चापि ।

“मरीचं कटुतिक्तोष्णं पित्तकृत् श्लेष्मनाशनम् ।
वायुं निवारयत्सेव जन्तुसन्ताननाशनम् ॥“ (धन्वन्तरिकोषे शतपुष्पादिवर्गः)
१. एतत् मरीचं कफं, वायुं, क्रिमिं च परिहरति ।
२. मरीचं हृद्रोगम् अपि परिहरति ।
३. मरीचं न उष्णम् । एतत् शरीरस्य द्रवांशं नाशयति । तन्नाम शरीरं शुष्कीकरोति ।
४. मरीचम् अग्निदीपकम् । तन्नाम पचनशक्तिं वर्धयति ।
लतायां वर्धमानं मरीचम्
५. मरीचं पित्तं वर्धयति । पित्तप्रकृतियुक्ताः मितेन उपयोगं कुर्युः ।
६. मरीचं श्वासरोगम् (अस्तमाम्), उदरबाधां च निवारयति ।
७. मरीचम् अरुचिं निवार्य बुभुक्षां वर्धयति ।
कृष्णं, हरितं, रक्तं, श्वेतं च मरीचम्
८. चर्मरोगेषु मरीचस्य तैलम् उपयुज्यते ।
९. दन्तवेदना अस्ति चेत्, दन्ताः कीटविद्धाः वा सन्ति चेत् मरीचेन दन्तमञ्जनं वा, मरीचस्य कषायं मुखे संस्थाप्य निष्ठीवनं वा कर्तुं शक्यते ।
१०. मरीचस्य तैलस्य शरीरे लेपनेन आमवातः, कण्डूयनं, चर्मरोगः च अपगच्छति ।
११. मरीचस्य चूर्णं, मधु, शर्करां च योजयित्वा सेवनं सर्वविधेषु कासेषु हितप्रदम् ।
१२. मलेरियासदृशेषु ज्वरेषु अपि मरीचम् उपयुज्यते ।
१३. मरीचं शरीरस्य शीतत्वं निवारयति ।
१४. आमयुक्ते अतिसारे अपि मरीचम् उपयुक्तम् इति वाग्भटे अस्ति ।
१५. घृतस्य सेवनेन जातस्य अजीर्णस्य अपि मरीचम् उपयुक्तम् इति भावप्रकाशे उल्लिखितम् अस्ति ।
१६. मरीचस्य विषये राजकोषे, धन्वन्तरिकोषे, चरकसंहितायां, भावप्रकाशे, वाग्भटे चापि उल्लेखः अस्ति ।



टिप्पणी

चित्रवीथिका

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मरीचम्&oldid=456399" इत्यस्माद् प्रतिप्राप्तम्