भारतस्य स्वातन्त्र्यसङ्ग्रामः

भारतीयः स्वातन्त्र्यसङ्ग्रामः राष्ट्रीयस्य क्षेत्रीयस्य च उत्तेजनस्य प्रयत्नस्य च फलस्वरूपः । भारतीराजकीयसङ्घटनैः सञ्चालितः अहिंसातत्त्वबद्धं ससैन्यान्दोलम् आसीत् । सर्वजनानम् एकमेव लक्ष्यं एक एव उद्देशः आङ्गप्रशासनं समूलम् उन्मूलयित्वा भारतमातुः दास्यविमोचनम् । अस्य आन्दोलनस्य आरम्भाः क्रि.श.१८५६ वर्षे अभवत् यस्य सिपायी विद्रोहः इति आङ्ग्लाः अवदन् । भारतस्य स्वातन्त्र्यता प्राप्तये सहस्राधिकाः स्वप्राणान् समर्पयन् । क्रि.शा१९३०तमे वर्षे भारतीयकाङ्ग्रेस् सम्भूते अधिवेशने पूर्णस्वातन्त्र्यस्य अभ्यर्थनम् आङ्ग्लानां पुरतः प्रस्तावितवन्तः ।

प्रथमस्वातन्त्र्यसङ्ग्रमदृश्यम्

प्रधानाः भारतस्वातन्त्र्यपूर्वघटनाः

  • क्रि.श.१४९८ : वास्कोडागामस्य दुरागमनम्।
  • क्रि.श.१६०० : ब्रिटिश ईस्ट इण्डिया समवायस्य स्थापनम्।
  • क्रि.श.१७४८ : भारते आङ्ग्लफ्रांसीसी युद्धम्।
  • क्रि.श.१७५७ : प्लासीकदनम्।
  • क्रि.श.१७९९ : आङ्ग्लैः टिप्पूसुल्तानस्य पराजयः।
  • क्रि.श.१८०५ : आङ्ग्लमराठयोः युद्धम्।
  • क्रि.श.१८४६ : आङ्ग्लसिख्खयोः युद्धम्।
  • क्रि.श.१८५७ : भारतीयस्वातन्त्र्यस्य प्रथमसङ्ग्रामः।
  • क्रि.श.१८८५ : भारतीयराष्ट्रीयकाङ्ग्रेस् स्थापनम्।
  • क्रि.श.१९०५ : आङ्ग्लैः बङ्गालविभागः।
  • क्रि.श.१९१५ : एनी बेसेंट द्वारा होम रूल लीग स्थापनम्।
  • क्रि.श.१९१९ : खिलाफत् आन्दोलनम् ,जलिन्वालाबाग् हत्याकाण्डः।
  • क्रि.श.१९२१ : महात्मा गन्धिद्वारा असहकारान्दोलनम् ।
  • क्रि.श.१९२२ : गान्धेः असहकारान्दोलनस्य स्थगनम् ।
  • क्रि.श.१९२८ : साय्मन् आयोगस्य विरोधान्दोलने लाला लाजपत रायस्य आहतिः।
  • क्रि.श.१९३० : महात्मागान्धेः दण्डीयात्रा लवणसत्याग्राहः । प्रथमा वर्तुलोत्पीठपरिषत्।
  • क्रि.श.१९३१ : द्वितीयःवर्तुलोत्पीठपरिषत् । गन्धिइर्विन् सधिः।
  • क्रि.श.१९४२ : भारतं त्यजन्तु आन्दोलनम्।
  • क्रि.श.१९४६ : मुम्बै नौसेनायाः विद्रोहः।
  • क्रि.श.१९४७ : भारतस्य विभजनम् । मध्यरात्रं स्वातन्त्र्यप्राप्तिः।
  • क्रि.श.१९६१ : पोर्चुगीसैः गोवाविमुक्तिः।