चन्द्रशेखर वेङ्कटरामन्

(सि वि रामन् इत्यस्मात् पुनर्निर्दिष्टम्)

चन्द्रशेखर वेङ्कटरामन् (तमिळ् சந்திரசேகர வெங்கடராமன்) (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्) कश्चन प्रख्यातः भारतीयः भौतशास्त्रज्ञः । १९३० तमे वर्षे तेन नोबेल्पुरस्कारः प्राप्तः । एशियाखण्डे एव नोबेल्-पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी अयम् । पारदर्शकवस्तुनः द्वारा प्रकाशः यदा सञ्चरति तदा व्याकुञ्चितस्य प्रकाशस्य तरङ्गदैर्घ्यं परिवर्त्यते इत्येतत् 'रामन्-परिणामः' इति कथ्यते । एतस्य संशोधनाय एव तेन नोबेल्पुरस्कारः प्राप्तः ।तस्‍य जन्‍म दक्षिणभारतस्‍य तिरुचिरापल्‍लीनामके स्‍थाने अभवत्‌। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्‌। आशुतोष मुखोपाध्‍यायः तं कोलकत्ताम्‌ अनयत्‌। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः'[२] शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति z

चन्द्रशेखर वेङ्कटरामन्
जननम्(१८८८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०७)७ १८८८
तिरुवनैकोयळ्, तिरुचिरापल्ली, मद्रास् प्रेसिडेन्सी, भारतम्
मरणम्२१ १९७०(१९७०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२१) (आयुः ८२)
बेङ्गळूरु, कर्णाटकराज्यम्, भारतम्
देशीयता भारतम्
कार्यक्षेत्राणिभौतविज्ञानम्
संस्थाःभारतीयवित्तमन्त्रालयः[१]
कोलकाताविश्वविद्यालयः
भारतीयकृषिविज्ञानपरिषद्
भारतीयविज्ञानसंस्था
केन्द्रीयमहाविद्यालयः, बेङ्गळुरुविश्वविद्यालयः
रमन् शोधसंस्था
मातृसंस्थाःमद्रासविश्वविद्यालयः
शोधच्छात्राःजी एन् रामचन्द्रन्,
विक्रम अम्बालाल् सराभाई
विषयेषु प्रसिद्धःरामन् एफेक्ट्
प्रमुखाः प्रशस्तयःनैट् बचेलर्(१९२९)
नोबेल् प्रशस्तिः (१९३०)
भारतरत्नम् (१९५४)
लेनिन् शान्तिपुरस्कारः (१९५७)
पतिः/पत्नीलोकसुन्दरी अम्माळ्(१९०७–१९७०)


बाल्यं, विद्याभ्यासश्च

वेङ्कटरामः तमिलुनाडुराज्ये तिरुचिरपळ्ळिमण्डले तिरुवानैकावल्प्रदेशे जातः । पिता आर् चन्द्रशेखर ऐय्यर्, माता पार्वती अम्माळ् च । पञ्चसु पुत्रेषु अयं द्वितीयः । लघुवयसि एव रामः आन्ध्रप्रदेशस्य विशाखपत्तनं प्रति गतः । तत्र सैण्ट् अलोशियस् आङ्ग्लो-इण्डियन् प्रौढशालायाम् अपठत् । तस्य पिता मदरासुनगरस्थे प्रेसिडेन्सीमहाविद्यालये गणित-भौतशास्त्रयोः प्राध्यापकः आसीत् । रामः स्वस्य त्रयोदश्यां वयसि १९०२ तमे वर्षे इमं महाविद्यालयं प्राविशत् । १९०४ तमे वर्षे बि ए परीक्षां प्रथमस्थानेन उत्तीर्णः, भौतशास्त्रे स्वर्णपदकं प्राप्तवान् च । १९०७ तमे वर्षे तेन अत्युत्तमैः अङ्कैः स्नातकोत्तरपदवी प्राप्ता ।

उच्चशिक्षा संशोधनञ्च

चन्द्रशेखरवेङ्कटरामन् वर्यस्य प्रारम्भिकी शिक्षा वाल्टियत् इति स्थाने अभवत् । तस्य द्वादशे वयसि प्रवेशपरीक्षाम् उत्तीर्य भौतिकविज्ञानविषये स्नातकपदवीं तथा स्नातकोत्तरपदवीं च मद्रासुनगरस्य प्रेसिडेन्सीमहाविद्यालयतः प्राप्तवान् । अस्मिन् महाविद्यालये क्रि.श. १९०२तमे वर्षे प्रविश्य क्रि.श. १९०४तमे वर्षे सम्पूर्णविद्यालयस्य प्रथमस्थानं प्राप्तवान् । एषः क्रि.श. १९०६तमे वर्षे मद्रासुविश्वविद्यालयतः गणितविषये प्रथमश्रेण्यां स्नातकोत्तरपदवीं प्राप्तवान् । पश्चात् वेङ्कटरामन्वर्यः कोलकत्तायाः भारतीयवित्तीयनिगमे सहायकवित्तीयव्यवस्थापकत्वेन उद्योगम् आरब्धवान् । किन्तु अस्मिन् कार्ये अस्य रुचिः नासीत् । अतः क्रि.श.१९१७तमे वर्षे सर्वकारीयसेवार्थं त्यागपत्रं दत्तवान् । पश्चात् इण्डियन् असोसियेषन् फार् कल्टिवेशन् आफ् सैन्स् इति स्वीयं भौतिकविज्ञानसङ्घटनम् आरब्धवान् । शोधकर्ये अस्य अतीव रुचिं दृष्ट्वा कोलकत्ताविश्वविद्यालयस्य कुलपति: सर् आशुतोषमुखर्जी भौतिकविज्ञानस्य विभागप्रमुखत्वेन कार्यं कर्तुम् अनुरोधं कृतवान् । भौतिकविज्ञानस्य संशोधस्य फलरूपेण कलकताविश्वविद्यालयात् डि.एस्सी पदवीं प्राप्तवान् । क्रि.श. १९२४तमे वर्षे फेलो आफ् रायल् सोसैटी इत्यस्य सदस्यत्वेन निर्वाचितः अभवत् । क्रि.श. १९३०तमे वर्षे रामन्प्रभावः इति अस्य संशोधनार्थं नोबेल्पारितोषिकम् इति जगतः सर्वश्रेष्ठं पुरस्कारं एषः क्रि.श. १९४८तमे वर्षे सेवायाः निवृत्तः रामन्शोधसंस्थानम् इति सङ्घटनं बेङ्गळूरुनगरे संस्थाप्य तत्र शोधरतः अभवत् । क्रि.श. १९५४तमे वर्ष् भारतसर्वकारेण भारतरत्नम् इति प्रशस्त्या भूषितः । क्रि.श. १९५७तमे वर्षे लेनिन् शान्तिपुरस्कारः अपि अस्य कण्ठं समलङ्करॊत् ।

टिप्पणिः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्