२०१५


जनवरी

  • १ जनवरी – प्लानिंग-कमिशन् इत्याख्यस्य भारतसर्वकारीयविभागस्य स्थाने नीति-आयोगः इत्याख्यस्य नवीनविभागस्य स्थापना अभवत् । [१]
  • २ – ३ जनवरी – ज्ञानसङ्गमः (Gyan Sangam) इत्याख्यः कार्यक्रमः पुणे-महानगरे आयोजितः । तस्मिन् दिनद्वयात्मके कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी, वित्तमन्त्री अरुण जेटली, रिझर्व बैङ्क ऑफ इण्डिया इत्यस्य कोषागारस्य राज्यपालः रघुराम राजन्, विभिन्नानां वित्तीयसंस्थानां अध्यक्षाः च उपस्थिताः ।[२]
  • ८ – ९ जनवरी – गुजरातराज्यस्य गान्धिनगरे वार्षिक-प्रवासिभारतीयदिवसस्य सम्मेलनम् अभवत् । [३][४]
  • १३ जनवरी – उत्तरप्रदेशराज्यस्य मलीहाबाद-नगरे विकृतमदिरायाः पानेन ३२ जनाः मृताः ।[५]
  • २६ जनवरी – भारतीयैः भारतीयगणतन्त्रोत्सवः आचरितः । तस्मिन् उत्सवे अमेरिकासंयुक्तराष्ट्रस्य राष्ट्रपतिः मुख्यातिथित्वेन उपस्थितः ।[६]
  • २७ जनवरी – 'राष्ट्रिय राइफल्' इत्याख्यस्य भारतीयसैन्यविभागस्य 'कर्नल्'-पदविभूषितः एम्. एन् राई-महोदयः, स्पेशियल् ऑपरेशन् ग्रुप्-संस्थायां 'कोस्टेबल्'-पदारूढः सञ्जीवकुमारसिंहः च जम्मूकाश्मीरराज्यस्य पुलावामामण्डलस्य तरल-नामके स्थाने आतङ्कवादिभिः सह जाते युद्धे हुतात्मानौ अभवताम् । तस्मिन् युद्धे द्वौ आतङ्कवादिनौ अपि हतौ । एम्. एन्. राई-महोदयः गणतन्त्रोत्सवस्य (२६ जनवरी) कार्यक्रमे "युद्धसेवा"-प्रशस्तिना सम्मानितः आसीत् ।[७]
  • ३१ जनवरी – अग्निः-५ इत्याख्यस्य अग्निशस्त्रस्य उडिसा-राज्ये स्थिते व्हिलर-द्वीपे परीक्षणं कृतम् । तच्छस्त्रं ट्रक-याने, रेल-याने च स्थित्वा अनुकूलं भवेत् उत न इति परीक्षितम् ।[८]

सन्दर्भः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=२०१५&oldid=373931" इत्यस्माद् प्रतिप्राप्तम्