ऋतुः

ऋतुः वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । ऋतवः षट्सङ्ख्यकाः । यथा- ग्रीष्मः, वर्षाः, शरत्, हेमन्तः, शिशिरः, वसन्तः । ऋतुः पुंल्लिङ्गशब्दः वर्तते ।

  • ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति ।
  • वर्षर्तुः । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति । आश्वयुजकार्तिकयोः
  • शरदृतुः । आकाशः निर्मलःभवति मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः
  • हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति वायुः अतिशितः वाति । माघफाल्गुणयोः
ऋतुः
वषे ऋतुः
वषे ऋतुः
  • शिशिरर्तुः । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।
  • वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते ।

ऋतुमासानां तुलना

ऋतवःseasonsमासाः (दक्षिणभारते)ग्रेगरियन् मासाः (दक्षिणभारते)मासाः (मध्यभारते)ग्रेगरियन् मासाः (मध्यभारते)मासाः (उत्तरभारते)ग्रेगरियन् मासाः (उत्तरभारते)
ग्रीष्मर्तुःSummerचैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२)एप्रिल् - मेवैशाखमासः - ज्येष्ठमासःएप्रिल्(१/२) - मे - जून्(१/२)ज्येष्ठमासतः आषाढमासपर्यन्तम्मे - जून्
वर्षर्तुःRainyज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२)जून् - जूलैआषाढमासः - श्रावणमासःजून्(१/२) - जूलै - आगस्त्(१/२)श्रावणमासतः भाद्रपदमासपर्यन्तम्जुलै - सप्टम्बर्
शरदृतुःAutumnश्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२)आगस्त् - सप्तम्बर्भाद्रपदमासः - आश्विनमासःआगस्त्(१/२) - सप्तम्बर् - अष्टोबर्(१/२)आश्वीजमासतः कार्तिकमासपर्यन्तम्अक्टोबर् - नवेम्बर्
हेमन्तर्तुःPre-winterआश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२)अष्टोबर् - नवम्बर्कार्तिकमासः - मार्गशीर्षमासःअष्टोबर्(१/२) - नवम्बर् - दशम्बर्(१/२)मार्गशीर्षमासतः पुष्यमासपर्यन्तम्डिसेम्बर -जनवरी १५
शिशिर्तुःWinterमार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२)दशम्बर् - जनुवरीपुष्यमासः - माघमासःदशम्बर्(१/२) - जनुवरी - फेब्रुवरी(१/२)माघमासतः फाल्गुणमासपर्यन्तम्जनवरी १६ - फेब्रवरी
वसन्तर्तुःSpringमाघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२)फेब्रुवरी - मार्च्फाल्गुनमासः - चैत्रमासःफेब्रुवरी(१/२) - मार्च् - एप्रिल्(१/२)चैत्रमासतः वैशाखमासपर्यन्तम्मार्च् - एप्रिल्

इमान्यपि दृश्यताम्

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ऋतुः&oldid=452762" इत्यस्माद् प्रतिप्राप्तम्