कावेरीनदी

दक्षिणभारते एका नदी

कावेरीनदी दक्षिणभारतस्य एका प्रमुखा नदी । एषा भारतस्य सप्तपुण्यतमनदिषु अन्यतमा अस्ति ।

कर्णाटकस्य श्रीरङ्गपत्तणसमीपे कावेरीनदी

गङ्गेयमुने चैव गोदावरि सरस्वति
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु॥

कावेरी कर्णाटकस्य जीवनदी अस्ति । कोडगुमण्डले पश्चिमघट्टप्रदेशे तलकावेरी इति स्थाने उद्भवति । एषा नदी मैसूरुमण्डलतः तमिळ्नाडुराज्यं प्रति प्रवहति । ततः गङ्गासागरं प्रविशति । दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुरस्रकिलोमीटर्पर्यन्तं व्याप्तः । कावेर्याः उपनद्यः सन्ति शिंशा, हेमावती, अर्कावती, कपिला, कबिनी, लक्ष्मणतीर्थं, लोकपावनी च । कावेरीं "दक्षिणगङ्गा” इति नाम्ना अपि आह्वयन्ति । कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।

पौराणिककथे

प्रथमा कथा

ब्रह्मणः पुत्री लोपामुद्रा भूलोके लोकोद्धारार्थं वसति स्म । कवेरः इति मुनिः ब्रह्माणम् उद्दिश्य तपः आचरितवान् । वररूपेण सन्ततिं प्रार्थितवान् , तदा लोपामुद्रां पुत्रीत्वेन प्राप्तवान् च । एकस्मिन् दिने तत्र अगस्त्यः तपः तप्तुं आगतः ।अगस्त्यः वदति-“ अहं लोपामुद्रां वृणोमि” इति । लोपामुद्रा उक्तवती "यदि भवान् अन्यत्र गच्छति तर्हि अहं भवतः निरीक्षायां बहुसमयं यापयितुं न इच्छामि । अतः यदि भवान् अन्यत्र गच्छति तर्हि अहं स्वतन्त्रा भूत्वा इतः गच्छामि" इति। एतम् विषयं अङ्गीकरोति अगस्त्यः मुनिः । तदा तयोः विवाहः सम्पन्नः । कदाचित् अगस्त्यमुनिः शिष्येभ्यः अध्यापयन् आसीत्, अध्यापने लीनः सः समयं विस्मृतवान् । तदा लोपामुद्रा ततः तलकावेरीम् आगत्य अन्तर्जले पतित्वा जलीभूय प्रावहत् । दक्षिणभूभागः तदा ऊषरभूमियुतः आसीत् । सा कवेरमुनेः पुत्री अतः कावेरी इति एव प्रसिद्धा अभवत् ।

द्वितीयाकथा

अन्यकथानुसारं सः प्रदेशः जलविहीनः आसीत् । जलक्षामस्य दूरीकरणार्थं अगस्त्यमुनिः ब्रह्मणः आशिषा, शिवेन पवित्रजलं कमण्डलौ स्वीकृत्य तत्र आगतवान् । तदा नद्याः निर्माणार्थम् उचितस्थानस्य अन्वेषणे रतः सः दक्षिणभागं प्रति प्रवासं कुर्वन् कोडगुप्रदेशस्य गिरिभागम् आगतवान् । मार्गे गमनसमये कञ्चन बालकं दृष्टवान् । सः वस्तुतः वेषान्तरितः गणेशः आसीत् । देहबाधापीडितः अगस्त्यः शौचार्थं स्थानं पश्यन् आसीत् । अतः सः तं बालकम् अवदत्, कमण्डलुं बालकस्य हस्ते दत्त्वा तस्य रक्षणं कर्तुम् उक्त्वा शौचार्थं गतवान् । गणेशः ’ मुनिः नद्याः उद्गमार्थं स्थानस्य अन्वेषणे रतः इति ज्ञातवान् आसीत् । गणेशः चिन्तितवान् एष एव प्रदेशः उचितः इति अतः सः कमडुलं भूमौ स्थापितवान् । तत्र एव उड्डयन् कश्चन काकः कमण्डलुं स्पृष्ट्वा उपाविशत् । तदा तत्र आगतः अगस्यमुनिः काकं दृष्ट्वा शीघ्रं तं धावयितुं प्रयत्तवान् । परन्तु कमण्डलुजलं निरस्यत् । लघुप्रमाणकं जलं धारारूपेण नदी भूत्वा प्रावहत् । तलकावेरी पवित्रं स्थानमस्ति । तत्र प्रतिदिनं पूजादिकं प्रचलति । महाभारतस्य आदिपर्वणि अर्जुनः तीर्थयात्राप्रसङ्गे अत्र आगत्य स्नातवान् इति उल्लिखितम् अस्ति । राजसूययागसमये नकुलः अत्र आगत्य जलं स्वीकृत्य गतवान् इति सभापर्वणि निरूपितम् अस्ति ।

नदीपात्रम्

कोडगुप्रदेशस्य पर्वतात् प्रवहन्ती एषा कावेरी अनन्तरं दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति प्रवहति । एषा यत्र प्रवहति तत्र त्रयः द्वीपाः सन्ति । शिवनसमुद्रे एषा ३२० पादपरिमितात् उन्नतप्रदेशात् पतित्वा गगनचुक्कीजलपातः, भरचुक्कीजलपातः इति जलपातद्वयं स्ऱु। भारतस्य प्रथमः जलविद्युदागारः अत्र १९०२ तमे वर्षे निर्मितवन्तः। तदा बेङ्गळूरुनगरम् इत एव विद्युच्छक्तिं प्राप्नोति स्म ।होगेनकल् जलपातात् अनन्तरं एषा तमिलुनाडुराज्यं प्रविशति । तञ्जावूरुमण्डले प्रवह्य्य अन्ते द्विधा भूत्वा गङ्गासागरं प्रविशति ।

कर्णाटके कावेरी

कर्णाटके एतस्याः द्वादशजलाशयाः निर्मिताः सन्ति । सर्वेषां जलाशयानां मुख्यः उद्देशः जलमातृकम् । मडदकट्टेप्रदेशस्य समीपे वर्तमानात् जलबन्धात् या कुल्या अस्ति सा २७ मैल्-दीर्घा अस्ति । १०,००० प्रहलप्रदेशान् जलमातृकत्वेन परिवर्तिता अनेन कुल्याजलेन । मैसूरुनगरं प्रति पेयजलस्य सौलभ्यं भागशः प्रददाति ।श्रीरङ्गपट्टणस्य समीपे स्थितः जलबन्धः बङ्गारदोड्डीकुल्या मैसूरु-ओडेयरराजवंशीयेन रणधीरकण्ठीरवेन निर्मिता । कर्णाटके कावेरीनद्याः प्रसिद्धः जलबन्धः निर्मितः अस्ति तस्य नाम कृष्णराजसागरः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कावेरीनदी&oldid=438916" इत्यस्माद् प्रतिप्राप्तम्