नदी

नदी इति नैसर्गिको जलमार्गः भवति,[१] प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। केषुचिच्च प्रकरणेषु, नदी तु धरातलस्य अन्तरे गच्छति, अथवा अन्यं किञ्चित् जलाशयं अप्राप्यैव शुष्यति। लघ्व्यः नद्यः अन्यनामभिः अपि ज्ञायन्ते, यथा- धारा, क्रीक् (आङ्ग्ल्या), ब्रूक् (आङ्ग्ल्या), रिवुलेट् (आ.), रन् (आ.), सहायकनदी तथा च रिल् (आ.)। नदी इत्यस्य भौगोलिकपदस्य प्रयोगार्थं आधिकारिकपरिभाषा न विद्यते।[२] यद्यपि केषुचित् देशेषु समुदायेषु वा धारायाः आकारमनुसृत्य तेषां परिभाषाः भवन्ति।नद्यस्तु जलचक्रस्य भागभूताः। नद्याः जलं तु अपवाहक्षेत्रवर्तिना अवक्षेपणेन (प्रायेण वर्षा इत्याख्यम्) सङ्गृहीतं भवति।एतस्य संग्रहणं तु धरातलीयप्रवाहेन, भूजलारोपणेन, जलोत्स्रुतेन, नैसर्गिकहिमाद् हिमपुटेभ्यो वा भण्डारितजलस्य मोचनेन भवति (यथा हिमानीभ्यः)। नदीशास्त्रं तु आङ्ग्लभाषायां पोटॅमोलॉजी इत्युच्यते सर्वसामान्यानां धरामध्यवर्तिजलानाम् अध्ययनं तु आङ्ग्लभाषायां लिम्नोलॉजी इत्युच्यते।

यूराल्-नद्याः कझाकस्थानतः विहङ्गमदृश्यम्।

उच्चतालेखः

अथाबस्का-हिमान्याः गलन् निम्नभागः, जैस्पर्-राष्ट्रियोद्यानम् इत्यत्र, अल्बर्टा, कनाडा.
बोहोल् इत्यत्र फिलीपीन्स्-देशे, लोबोक्-नदी
नैलनद्याः डेल्टा, भूकक्षातः यथादृष्टम्। नैलडेल्टा तु तरङ्गप्रधानडेल्टायाः उदाहरणम् अस्ति, यस्य त्वाकारः डेल्टा इति ग्रीकवर्णस्य इव भवति, यदाधृत्य डेल्टा इति नाम प्रयुक्तम्।
शनिग्रहस्य टैटन् इति चन्द्रे 400 किलोमीटरमितायाः मीथेन्-ईथेन् इत्येतेषां नद्याः रेडार्-चित्रम्

सन्दर्भाः

अधिकम् अध्ययनम्

बाह्यतन्तूनि

फलकम्:Rivers, streams and springs

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=नदी&oldid=341940" इत्यस्माद् प्रतिप्राप्तम्