नेल्सन् मण्डेला

नेल्सन् मण्डेला दक्षिण-आफ्रिकादेशस्य सुप्रसिद्धः नायकः । नेल्सन् रोलिह्लाह्ल मण्डेला अस्य पूर्णनाम भवति । अमेरिकादेशस्य मार्टिन् लूथर् किङ्ग् यथा वर्णभेदस्य विरुद्धम् आन्दोलनं कृतवान् तथैव अयमपि स्वदेशे आन्दोलनं कृतवान् । अत्रत्य जनानां प्रीतिपात्रः अस्ति । अधुनिकयुगस्य राजकीयक्षेत्रस्य सुप्रसिद्धः, नैतिकव्यक्तित्वयुक्तः च आसीत् । भारतस्य राष्ट्रपतिचरः के.आर्. नारायणन् ’अधुनिकगान्धिः’ इति एनं सम्बोधितवान् आसीत् ।

नेल्सन् मण्डेलः
नेल्सन् मण्डेलः
जन्मRolihllahla Mandela Edit this on Wikidata
क्रि.श. १९१८तमवर्षस्य जुलैमासस्य १८तमदिनम् ।
कूनु, मथाथ्, ट्रान्स्की, दक्षिणाफ्रिकादेशः।
मृत्युः५ डिसेम्बर् २०१३ Edit this on Wikidata (आयुः ९५)
शान्तिस्थानम्Qunu Edit this on Wikidata
देशीयताआफ्रिकीयः
शिक्षणस्य स्थितिःविट्वाटर्सरांड विश्वविद्यालय, University of Fort Hare, University of South Africa, लंदन विश्वविद्यालय Edit this on Wikidata
वृत्तिःराजनैतिज्ञः, Autobiographer, वक़ील, political activist, political prisoner, पटकथा लेखक edit this on wikidata
Organizationआफ्रिकादेशस्य राष्ट्रियकाङ्रेस्
भार्या(ः)Evelyn Mase, विनी मंडेला, Graça Machel Edit this on Wikidata
अपत्यानिMakgatho Mandela, Makaziwe Mandela, Zenani Mandela-Dlamini, Thembekile Mandela, Zindzi Mandela Edit this on Wikidata
पितरौ(माता)
टेम्बू (पिता)
जालस्थानम्https://www.nelsonmandela.org Edit this on Wikidata

जननम्, बाल्यञ्च

नेल्सन् मण्डेलः जुलैमासस्य १८ तमे दिनाङ्के १९१८ तमे संवत्सरे दक्षिण-आफ्रिकादेशस्य ट्रान्स्कै पत्तनस्य उयतलसमीपस्थे क्वुनुग्रामे अजायत । अस्य जनाङ्गस्य सम्प्रदायानुसारं नाम स्थापितम् आसीत् । अस्य पिता हेन्रिगाड्ला । अस्य चतस्रः भार्याः आसन् । तृतीया भार्या नेल्सन् मण्डेलावर्यस्य माता भवति । अस्याः नाम नोसेकेनि फ्यानि । एषा अनक्षरस्ता आसीत् । अतः पुत्रः साक्षरवान् भवेत् इति अस्याः आशा आसीत् । अस्य दशमे वयसि पिता मृतवान् । बाल्ये बन्धुना सह शालाविरामेषु दिनेषु गोपालनं करोति स्म । एषु समयेषु एव सः वर्णभेदस्य विषये ज्ञातवान् आसीत् ।

अध्ययनम्

अस्य पितुः मरणानन्तरं श्वशुरः एव अद्ययने साहाय्यं कृतवान् । प्रप्रथमतया १९८२ तमे वर्षे शालां गतवान् । हेल्डेट् वेस्लियान् शालायां प्रौढशिक्षणं प्राप्तवान् । १९३८ तमे संवत्सरे मेट्रिक्यूलेक्षन् परीक्षायाम् उत्तीर्णः । समनन्तर (कनूनु) विषयस्य अध्ययनार्थं जोहान्सबर्गनगरं गतवान् । तत्र कृष्णवर्णियेभ्यः जनेभ्यः वस्तुं सुव्यवस्था नासीत् । अतः मण्डेलावर्यः अल्पेन स्वधनेनैव पत्रालयशिक्षणद्वारा बि.ए. पदवीधरः जातः। सिडेल्स्कि नामकस्य न्यायवादी समीपे कानूनुविषये शिक्षणं प्राप्तवान् । विट् वाटर् स्ट्राण्ड विश्वविद्यालये कानुनुविषये अध्ययनं कृतवान् ।

वैय्यक्तिकजीवनम्

पत्नी इवेलिन् मेस्सिसुलु सह

नेल्सन् मण्डेला प्रभावीनायकः आसीत् । १९४४ तमे वर्षे जोहान्सबर्गनगरस्य इवेलिन् मेस्सिसुलु नाम कन्यां परिणीतवान् । सिसुलु एका अनुवैद्या आसीत् । १९५६ तमे संवत्सरे अनयासह विच्छेदनम् अभूत् । त्रीणि सन्तानानि आसन् । एषा एव पालयति स्म । विन्निनोम जानो नाम कन्यां १९५८ तमे संवत्सरे परिणीतवान् । एषा द्वितीया भवति । एषा समाजसेवाकर्त्री आसीत् । नेल्सन् मण्डेला उत्तमलेखकः । स्व आत्मकथां लिखितवान् अस्ति । अस्य वैक्तिकजीवननिरूपकौ ग्रन्थौ भवतः । फातिमायार् रचितः “हैयर् द्यान् होप्”, बेञ्जमिन् पोग्रुण्डवर्यस्य मण्डेलावर्यस्य जीवनाधारितः ग्रन्थः च । २७ वर्षाणि कारागृहे आसीत् । समाजाय सहाय्यं कुर्वन्नेव जीवितवान् अस्ति ।

आन्दोलनम्

आफ्रिकादेशे वर्णभेदः बहुधा कृष्णवर्णीय जनान् पीडयति स्म । प्राथमिकशिक्षणाध्ययनकाले विरमेषु समयेषु बान्धुभिस्सह गोपालनार्थं गच्छति स्म । कश्चनः बन्धुः वर्णभेदस्य विषये अफ्रिकादेशे विद्यमानान् क्लेशान् बोधितवान् । तदारभ्य अस्य मनसि वर्णभेदस्य निवारणार्थं चिन्तनम् आसीत् । अस्मिन् देशे कृष्णवर्णीयाः आन्दोलनं कर्तुं न शक्नुवन्ति स्म । ग्रन्थालयेषु प्रवेशः न आसीत् । चलचित्रमन्दिरेश्वपि प्रवेशः न आसीत् । कृष्णवर्णीयजनेभ्यः स्वातन्त्र्यमेव न आसीत् । चित्रविचित्रं वर्णभेदम् असहमानः सर्वकारस्य विरुद्धम् आन्दोलनम् कृतवान् । जून्मासस्य २६ तमे दिनाङ्के १९५० तमे संवत्सरे आन्दोलनदिनम् इति उद्घोषितम् आसीत् । तदा ए एन् सि सहकारं दत्तमासीत् । १९५७ तमे संवत्सरे युवसङ्घस्य अद्यक्षः आसीत् । एषु दिनेषु ए एन् सि सदस्येभ्यः अस्मै च सभासु भागग्रहणार्थम्, भाषणार्थञ्च निषेधः कृतः आसीत् । तथापि स्वकार्यं न त्यक्तवान् । सर्वकारनिन्दाकारणात् क्रि.श. १९५६ तः १९६१ संवत्सरपर्यन्तं सर्वकारं विरुध्य न्यायसमरं कृत्वा क्रि.श. १९६१ तमे वर्षे जयम् आप्नोत् ।

कारागृहबन्धनम्

कारागृहस्य प्रकोष्ठः

मेमासस्य १९६१ तमे संवत्सरे नेटाल्-देशस्य पीटर् यार्ट्ज बर्गनगरे अस्य भाषणम् आसीत् । निषेधः इति बहुदिनेभ्यः भाषणं न कृतवान् आसीत् । किन्तु तत्रत्य भाषणं प्रचोदनकारी सार्वकारस्य विरुद्धं च आसित् । बन्धितुम् आरक्षकाः प्रयासं कृतवन्तः । ततः सह पलायितः । अस्मिन् समये आदेशं जनान् प्रेरयन् अटितवान् । अन्य आफ्रिकादेशेषु गत्वा तत्रत्य नायकानां सहायं स्वीकृतवान् । एवं वर्णभेदस्य विरुद्धम् आन्दोलनं कर्तुं प्रेरितवान् । षण्मासानन्तरं पुनरागतः । न्यायालयेन पञ्चवर्षाणि कारागृहबन्धनं सूचितम् असीत् । राबेन्द्वीपस्य कारागृहे स्थापितम् आसीत् । सप्तविंवशति वर्षाणि कारागृहे एव आसीत् । कारागृहे ए,बि,सि,डि इति बन्धनस्थेषु विभागः आसीत् । मण्डेला डि विभागे आसीत् । अस्मै सुव्यवस्था न कल्पिता आसीत् ।


पुरस्काराः

  • १९९३ तमे वर्षे अनेन नोबेल् शान्तिप्रशस्तिः प्राप्ता ।
  • १९७३ तमे संवत्सरे लीड्स विश्वविद्यालयः परमाणोः अन्वेशणं कृतम् आसीत्। तस्य परमाणोः नाम मण्डेलापरमाणुः इति स्तापितम् आसीत् ।
  • १९७५ तमे संवत्सरे गौरवाजीवसदस्यत्वं लण्डन् विश्वविद्यालयः दत्तः।
  • १९७९ तमे संवत्सरे लेसोथो विश्वविद्यालयः गौरवडाक्टरेट् उपाधिं दत्तम् ।
  • १९८० तमे संवत्सरे भारतसर्वकारस्य जवाहरलाल नेहरू अन्ताराष्ट्रीयपुरस्कारेण सम्मानितः ।
  • १९८२ तमे संवत्सरे गौरवाध्यक्षः (जीववधिकालस्य) सञातः ।
  • भारतसर्वकारः एतस्मै भारतरत्नप्रशस्तिम् अयच्छत् ।
  • कारागृहे यदा आसीत् तदानीन्तन पुरस्काराः*
  • १९८६ तमे संवत्सरे जिम्बाब्वे विश्वविद्यालयस्य डाक्टर् आफ् लास् पुरस्कारं प्राप्तवान् ।
  • अन्ताराष्ट्रीय शान्ति-स्वातन्त्र्यपुरस्कारं प्राप्तवान् ।
  • १९८७ तमे संवत्सरे हवान विश्वविद्यालयस्य (क्युबा), स्टेट्स्-रास् विश्वविद्यालयस्य (युनैटेड्), कार्लमार्क्स् विश्वविद्यालयस्य (जर्मनी) च गौरवपुरस्कारान् प्राप्तवान् ।
  • १९८८ तमे संवत्सरे विश्वसंस्थायाः मानवताधिकारस्य चतुर्थं पुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे सुखरोव् पुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे ब्रेमेन् सालिडारिटे पुरस्कारं प्राप्तवान् (जर्मनी) ।
  • १९८८ तमे संवत्सरे शान्तिपुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे इटालिदेशस्य बोरोना विश्वविद्यालयस्य गौरवपदविपुरस्कारं प्राप्तवान् ।
  • १९८९ तमे संवत्सरे अगष्ट सीजर् स्याण्डिनो पुरस्कारं प्राप्तवान् ।
  • १९८९ तमे संवत्सरे टूरेण्टोदेशस्य यार्कविश्वविद्यालयस्य गौरवडाक्टरेट् प्राप्तवान् ।

बाह्यानुबन्धः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=नेल्सन्_मण्डेला&oldid=480526" इत्यस्माद् प्रतिप्राप्तम्