पर्वताः

पर्वति - पर्व (पूरणे) अतच् (उ ३-११०)

हिमालये गौरीशिखरम्(वामतः) लोस् (मध्ये) अमा दबलम् (दक्षिणतः)
पयोधि तर्णकपदं पर्वतं सिकतामयम् ।
पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ याद-२२-५१

पर्वतः सीमिते भूप्रदेशे शिखररूपेण स्थितः महा भूराशिः एव । समुद्रस्तरम् आधारीकृत्य स्थितः अत्युन्नतः पर्वतः नाम मौण्टेवरेस्ट्(८,८४८ मी (२९,०२९ पादमितम्)) एशियाखण्डे हिमालये वर्तते । सौरमण्डले अत्युन्नतः पर्वतः नाम ओलिम्पस् मान्स् (२१,१७१ मी (६९,४५९ पादमितम्)) मङ्गलग्रहे विद्यते ।एशियाखण्डे ६४%, युरोपखण्डे २५%, दक्षिणामेरिकाखण्डे २२%, आस्ट्रेलियाखण्डे १७%, आफ्रिकाखण्डे ३% भागाः पर्वतप्रदेशाः । भूमौ २४% पर्वतभागाः । १०% जनाः पर्वतीयप्रदेशे निवसन्ति । जगतः बह्व्यः नद्यः पर्वतमूलाः । ५०% मानवाः पर्वतजलमेव अवलम्बन्ते जीवनाय ।

बृहत्पर्वताः

सप्तशतमीटर्तः अपि उन्नताः शताधिकाः पर्वताः एषियाखण्डे एव सन्ति । तेषु बहवः हिमालयपर्वतश्रेण्याम् एव सन्ति । कस्मिंश्चिदन्यखण्डे एतावन्तः उन्नतपर्वताः न सन्ति । यूरोपखण्डस्य उन्नतः शिखरः रषियादेशे स्थितः मौण्ट् एल्ब्रस् इति। एष मौण्ट् एवरेस्ट् शिखरस्य अपेक्षया ३००० मीटर् न्यूनः अस्ति ।विविधेषु खण्डेषु स्थिताः अत्युन्नताः पर्वताः

क्रमसङ्ख्याखण्डःपर्वतःऔन्नत्यम्
एशियाखण्डःएवरेष्ट्पर्वतः८८४८ मीटर्मितः
दक्षिण -अमेरिकाखण्डःअकाङ्कागुवा६९६० मीटर्मितः
उत्तर- अमेरिकाखण्डःम्याक् किन्ले६१९४ मीटर्मितः
आफ्रिकाखण्डःकिलिमञ्जारो५८९५ मीटर्मितः
यूरोपखण्डःएल्ब्रस्५६३३ मीटर्मितः
अण्टार्टिकाखण्डःविन्सन् म्यसिफ्५१४० मीटर्मितः
ओषानियाजया४८८३ मीटर्मितः
झुग्स्पिट् - जर्मन्याः उन्नतपर्वतः

विश्वस्य दश बृहत्शिखराणि । सर्वे हैमालयश्रेण्याम् एव सन्ति ।

क्रमसङ्ख्याशिखरम्औन्नत्यम्
एवरेस्ट्८८४८ मीटर्मितम्
के२ (गोड्विन् अस्टिन्)८६११मीटर्मितम्
काञ्चनगङ्गा८५९८ मीटर्मितम्
ल्होत्से८५११ मीटर्मितम्
यालुङ्ग् काङ्ग्८५०२ मीटर्मितम्
मकालु८४८१ मीटर्मितम्
धवलगिरिः८१७२ मीटर्मितम्
मानास्लु८१५६ मीटर्मितम्
चो ओयु८१२६ मीटर्मितम्
१०नङ्गपर्वतः८८४८ मीटर्मितम्

युरोपस्य उन्नतानि शिखराणि

यूरोपस्य अत्युन्नतानि शिखराणि । शिखरत्रयं रषिया देशस्य काकसस् पर्वतश्रेण्यां सन्ति । अन्यानि अल्फ्स्पर्वतश्रेण्यां सन्ति ।

क्रमसंख्याशिखरम्औन्नत्यम्
एल्ब्रस्५६३३ मीटरमितम्
डैक् तावु५२०२ मीटरमितम्
शखर५०५८ मीटरमितम्
मौण्ट् ब्रस्४८१० मीटरमितम्
माण्टे रोसा४६३३ मीटरमितम्
वैष्टार्न्४५१२ मीटरमितम्
किनबलुपर्वतः, मलेशिया

अत्युन्नतः पर्वतः

प्रपञ्चे अत्युन्नतः पर्वतः मौण्ट् एवरेस्ट् नेपाल-टिबेट्सीमयोः अस्ति । एतस्य प्राचीनं नाम चामो लुङ्मा इति (टिबेट् भाषा) अस्य अर्थः विश्वमातृदेवता । समुद्रतलतः यदि मापयामः तर्हि प्रपञ्चे मौण्ट्-एवरेस्ट् एव उन्नतः शिखरः ।
परन्तु पर्वतस्य मूलतः अग्रं यावत् मापयाम तर्हि हवाये मध्ये स्थितः मौना की प्रपञ्चस्य अत्युन्नतः पर्वतः । अस्य मूलं समुद्रतले अस्ति । अस्य औन्नत्यं ४२०५ मीटर्मितम् अस्ति । मूलतः १०,२०३ मीटर्मितमस्ति । (एवरेस्टतः अपि १३५५ मीटर्मितं यावत् अधिकः उन्नतः)

अति दीर्घाः पर्वतश्रेण्यः

क्र संपर्वतश्रेणीस्थानम्दैर्घ्यम्
हिन्दूसागरशान्तसागरयोः मध्येनिगूहिता पर्वतश्रेणी३०,७२० किलोमीटर्युता
आण्डीस्दक्षिण-अमेरिका७.२४० किलोमीटर्युता
राकिपर्वतश्रेणीउत्तर-अमेरिका६,०३० किलोमीटर्युता
हिमालयकाराकोरं-हिन्दूकुशश्रेणीएशिया३,८६० किलोमीटर्युता
ग्रेट् डिवैड्ग् रेञ्ज्आस्ट्रेलिया३.६२० किलोमीटर्युता

पर्वतारोहणविक्रमः

पर्वतारोहणसाहसक्रीडायाः आरम्भः १८ शततमे वर्षे अभवत् ; दक्षिणयूरोपस्य आल्प्स्पर्वतश्रेण्याम् आल्पैनस्य मौण्ट् ब्ल्लङ्क् शिखरम् (औन्नत्यं ४८१० मीटर्मितम्) क्रि.श १७८६ तमे वर्षे अरूढम् । क्रि.श १८७० तमवर्षे प्रायः आल्पैन्पर्वतश्रेणीषु स्थितानि सर्वाणि शिखाराणि आरूढानि । ततः जगति अन्यबृहतशिखराणाम् आरोहणम् आरब्धम् ।विविधखण्डेषु प्रथमतया शिखरारोहणं कस्मिन् वर्षे अभवत् इति अत्र प्रदत्तम्

पर्वतःवर्षम्
एवरेष्ट्पर्वतः१९५३
अकाङ्कागुवा१८९७
म्याक् किन्ले१९१३
किलिमञ्जारो१८८९
एल्ब्रस्१८७४
विन्सन् म्यसिफ्१९६६
जया१९६२

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=पर्वताः&oldid=436833" इत्यस्माद् प्रतिप्राप्तम्