मराठीभाषा
मराठी आर्य-भाषापरिवारस्य भाषा अस्ति। अधिकतया महाराष्ट्रराज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति।
Marathi | ||||||
---|---|---|---|---|---|---|
मराठी Marāṭhī | ||||||
विस्तारः | भारतम् | |||||
प्रदेशः | महाराष्ट्रम्, गोवा, कर्नाटकम्, मध्यप्रदेशम्, छत्तीसगड विभागाः गुजरात, आन्ध्रप्रदेशम्, तमिलनाडु, दादरा नगरहवेलिः च, दमणं दीवश्च | |||||
स्थानीय वक्तारः | 73 millionफलकम्:Infobox language/ref (date missing) | |||||
भाषाकुटुम्बः | Indo-European
| |||||
उपभाषा(ः) | Varhadi , मालवणी, खानदेशी, अहिराणी, | |||||
लिपिः | देवनागरी मोडी (historical) | |||||
आधिकारिकस्थितिः | ||||||
व्यावहारिकभाषा | भारतम्: Maharashtra, Daman and Diu[२] and Dadra and Nagar Haveli[३] | |||||
नियन्त्रणम् | राजकीयनियन्त्रणं नास्ति। | |||||
भाषा कोड् | ||||||
ISO 639-1 | mr | |||||
ISO 639-2 | mar | |||||
ISO 639-3 | either: फलकम्:ISO639-3 documentation – Modern Marathi फलकम्:ISO639-3 documentation – Old Marathi | |||||
LINGUIST List | omr Old Marathi | |||||
|
भाषापरिवारेऽस्मिन् स्थानम्
मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति ।
इतिहासः
मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।
मराठीभाषाविकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रय: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: शब्दयोः योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रं' च इत्येतान् प्राचीनग्रन्थान् दीयते । प्रतिष्ठान(पैठण)स्थाः सातवाहन-प्रशासका: महाराष्ट्रीभाषाया उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । मराठा-आधिपत्यकाले मोरोपन्तः, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्त्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारिता राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठीसाहित्यसम्मेलनम् आरब्धम् ।
देवनागरी लिपिः
मराठीभाषा प्रमुखतया देवनागरी माध्यमेन लिख्यते । मराठीलेखनार्थं या लिपिः युज्यते सा देवनागरी, 'बाळबोध लिपिः' वा ज्ञायते जनै: ।
बाह्यसम्पर्कतन्तुः
- मराठी भाषा की जानकारी
- Ethnologue report for Marathi
- मराठी-सङ्केतस्थलम्
- Modi Script online Archived २००८-०५-१५ at the Wayback Machine