राजेश खन्ना

भारतीयराजनेतारः

राजेशखन्नः (१९४२ डिसेम्बर् २९ - २०१२ जुलै १८) बालिवुड्-अभिनेता, चित्रनिर्मापकः, राजनेता च । सः भारतीयचलच्चित्ररङ्गस्य 'परमाभिनेता' (सूपर् स्टार्) इति प्रसिद्धः । १९७० दशके तेन अभिनीतानि सर्वाणि चलच्चित्राणि नितरां प्रसिद्धानि जातानि । तस्मात् तेन परमाभिनेतृपदं प्राप्तम् । १९७३ तमे वर्षे तेन डिम्पल् कपाडिया परिणीता । तयोः उभे पुत्रौ जाते । तौ १९८४ तमे वर्षे विवाहविच्छेदनं प्राप्तवन्तौ । तयोः ज्येष्ठपुत्री ट्विङ्कल् खन्ना अभिनेत्रा अक्षयकुमारेण परिणीता, तयोः पुत्री रिङ्के खन्ना ।

राजेश खन्ना
राजेश खन्ना
जन्मजतिन खन्ना
(१९४२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२९)२९ १९४२
अमृतसर, पञ्जाबराज्यम्, ब्रिटिश्-भारतम्
मृत्युः१८ २०१२(२०१२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-१८) (आयुः ६९)
मुम्बई, महाराष्ट्रराज्यम्, भारतम्
निवासःआशीर्वाद, मुम्बई, महाराष्ट्रम्
देशीयताभारतम् Edit this on Wikidata
अन्यानि नामानिजतिन खन्ना
काका
आर् के
दि ओरिजिनल् किङ्ग् आफ् रोमेन्स्[१]
The First Superstar of Hindi Cinema
शिक्षणस्य स्थितिःness wadia college of commerce, St. Sebastian Goan High School, Kishinchand Chellaram College, Hill Grange High School Edit this on Wikidata
वृत्तिःचलच्चित्राभिनेता, चलच्चित्रनिर्मापकः, राजकीयनेता
सक्रियतायाः वर्षाणि1966–2012 (अभिनेता)
1991–1996 (राजकीयम्)
1971–1995 (निर्माता)
भार्या(ः)डिम्पल् कपाडिया (1973–2012)
अपत्यानिट्विङ्कल् खन्ना
रिङ्के खन्ना
सम्बन्धिनःअक्षयकुमार (जामाता)
हस्ताक्षरम्
Rajesh Khanna signature

बाल्यम्

खन्नामहोदयस्य बाल्यजीवनं तावद् सुखकरं न आसीत् । १९४२ डिसंबर् मासे ९ दिनाङ्के जन्मप्राप्तवान् । एतस्य मूलनाम जतीन् इति । चुन्नालाल खन्ना तथा लीलादेवी इत्येतयोः दत्तुपुत्ररूपेण सः तेषां सुपर्दौ वर्धितः । तेषां मार्गदर्शनेन एव एतस्य विद्याभ्यासः अपि जातः । ततः रङ्गभूमिं प्रति तस्य मनः सर्वदा आकर्षति स्म । प्रथमचित्रस्य प्रसिद्धेः अनन्तरं तेन ४० वर्षाणां सुदीर्घं यानं कृतम् ।

चलच्चित्ररङ्गे

आख्री खत् चलनचित्रद्वारा चित्ररङ्गं प्रविष्टः काका शर्मिळा ढागोर्वर्यया सह अभिनीयतः “आराधना” चलनचित्रद्वारा महानायकः (Super star) अभवत् । (७०-८०) तमे दशके ‘सफर्’, ‘कटिपतङ्ग’, ‘सच्चा झूठा’, ‘आम् मिला सजनो’, ‘दो रास्ते’, ‘आनन्द’, ‘अमरप्रेम’, ‘जीवन् सायी’ आहत्य १५ प्रसिद्धानि चलनचित्राणि लोकार्पितानि आसन् । अस्मिन् वर्षे ‘ह्यावेल्स् फ्यान्’ इत्यस्य विज्ञापनस्य रूपदर्शिः आसीत् । एषा एव प्रायः तस्य अन्तिमा नटना आसीत् इति वयं वक्तुं शक्नुमः ।वर्णलोके तथा निजजगति सः गम्भीरतया, तल्लीनतया जीवति स्म । तस्य भावपूर्णेन अभिनयेन सः जनमानसि सर्वदा स्थितः अस्ति । शर्मिळा ढागोर वर्यया सह अधिकाधिकेषु चलनचित्रेषु सः अभिनयं कृतवान् । अभिनयात् परम् अपि राजेश् खन्ना वर्यस्य प्रभावः अयस्कान्तः इव जनान् आकर्षयति स्म । तस्य प्रथमं चित्रम् अस्ति ‘आख्री खत्’ १९६६ तमे वर्षे एतस्य चित्रस्य लोकार्पणम् अभवत् । तदनन्तरं तु सः बहु प्रसिद्धः अभवत् । ५० वर्षाणां चलनचित्रजगतः जीवने सः सामान्यतया १६३ चित्रेषु अभिनयं कृतवान् । नवशतमाने दूरदर्शनस्य धारावाहिनीषु अपि अभिनयं कृतवान् (इत्तेफाक्, अप्ने पराये, रघुकुल रीत् सद चली आयीं )

सामान्यतया प्रत्येकं चित्रम् अपि बाक्स् आफीस् मध्ये प्रभूतं धनं सम्पादयती स्म । तस्य वस्त्रधारणस्य शैली अपि अतीवभिन्ना एव आसीत् । प्रेक्षकाः अपि तस्य एव अनुकरणं कुर्वन्ति स्मण् । तावान् प्रभावः आसीत् ।

राजकीयप्रवेशः

९० तमे दशके एतेन राजकीयरङ्गस्य प्रवेशः जातः । १९९१ तः १९९६ पर्यन्तं दिल्लिकाङ्ग्रेस पक्षस्य संसद रूपेण कार्यं कृतवान् आसीत् । पञ्जाब् राज्ये निर्वाचनसमये २०१२ तमे वर्षे काङ्गेसपक्षस्य परतया प्रचारकार्यक्रमेऽपि भागं गृहीतवान् आसीत् ।

साधितं कार्यम्

  • १९६९ तः १९७१ पर्यन्तं सततं १५ चित्राणी । सर्वाणि चित्राणि अपि यशस्वीनि चित्राणि एव ।
  • अभिनीतानि चित्राणि १६३ ।
  • ३ वारं फिलिंफेर् प्रशस्तिः ।
  • प्रथमं चित्रम् ‘आख्री खत्’ (१९६६) । अन्तिमं चित्रं ‘वफा’ ।
  • १९६६-२०१२ नटः, निर्माणकः च ।
  • १९९१- १९९६ काङ्ग्रेस् पक्षस्य संसदः ।
  • अत्युत्तमानि ५ चित्राणि – आराधना, आनन्द, बावर्चि, प्रेमकहानि, नमक् हराम् ।
  • राजेशः १६३ चलच्चित्रेषु अभिनयम् अकरोत् तेषु १२८ चलच्चित्रेषु प्रमुखनायकः आसीत् । तेन १७ लघुचलच्चित्रेषु अपि अभिनयः कृतः । त्रिवारं तेन अत्युत्तमाभिनेतृप्रशस्तिः प्राप्ता अस्ति ।

मृत्युः

अर्बुदरोगेण दीर्घकालात् पीडितः सः २०१२ तमे वर्षे जुलैमासस्य १८ दिनाङ्के दिवङ्गतः । तस्मिन् दिने समग्रं बालिवुड्जनाः सर्वे अपि तत्र सम्मिलिताः आसन् ।

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=राजेश_खन्ना&oldid=474952" इत्यस्माद् प्रतिप्राप्तम्