सचिन तेण्डुलकर

सचिनतेण्डुलकरः (Sachin Tendulkar) प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

सचिन् तेण्डुल्कर्
{{{imagealt}}}
वैय्यक्तिकपरिचयः
सम्पूर्णनामसचिन् रमेशतेण्डुल्करः
जन्म (१९७३-२-२) २४ १९७३ (आयुः ५१)
बाम्बे (अधुना मुम्बई), महाराष्ट्रराज्यम्, भारतम्
प्रसिद्धनामानिलिट्ल् मास्टर्, टेण्ड्ल्य
औन्नत्यम्5 फ़ुट 5 इंच (1.65 मी)
ताडनशैलीदक्षिणहस्तेन
कन्दुकक्षेपणशैलीदक्षिणस्कन्धः (लेग् स्पिन्, आफ् स्पिन्, मध्यमवेगः)
पात्रम्ताडकः
अन्ताराष्ट्रियविवरणानि
राष्ट्रम्भारतम्
प्रथमटेस्ट् (cap 187)१५ नवेम्बर् 1989 v पाकिस्थानम्
अन्तिमटेस्ट्२४ जनवरी 2012 v आस्ट्रेलिया
प्रथम-ओ डि ऐ(cap ७४)१८ डिसेम्बर् १९८९ v पाकिस्थानम्
अन्तिम-ओ डि ऐ२६ फेब्रवरी २०१२ v आस्ट्रेलिया
ओ डि ऐ युतकसङ्ख्या.१०
टि २०1 December 2006 v South Africa
गृह्यगणविवरणानि
वर्षम्गणः
1988Cricket Club of India
1988–presentMumbai
2008–presentMumbai Indians
1992Yorkshire
वृत्तिजीवनस्य सांख्यिकी
स्पर्धाTestODIFCLA
क्रीडाः188453292541
प्राप्ताः धावनाङ्काः15,47018,11124,38921,684
सामान्यताडनानि55.4445.1658.6245.84
१००s/५०s51/6548/9578/11159/113
श्रेष्ठाङ्कः248*200*248*200*
Balls bowled4,1748,0327,53910,220
विकेट्4515470201
बोलिङ्ग् 54.3344.3261.9542.11
५ विकेट् (एकस्मिन् इनिङ्गस्)0202
१० विकेट् (एकास्यां स्पर्धायाम्)0n/a0n/a
श्रेष्ठबोलिङ्ग्3/105/323/105/32
क्याच्/स्टाम्पिङ्ग्113/–136/–181/–171/–
Source: Cricinfo, 28 January 2012
सचिनतेण्डुलकरः

वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।

सः टेस्ट्क्रीडासु (५१) ओ.डि.ऐ.क्रीडासु, अन्ताराष्ट्रिय-एकदिवसीयक्रीडासु(४९) च आहत्य १८,४२६ [१] धावनाङ्कान् पाप्य जागतिकविक्रमं निर्मितवान् अस्ति । क्रीडाजीवनस्य आरम्भावसरे सः आसीत् षोडाशवर्षीयः । तदा लिटल् मास्टर् इति प्रीत्या सः सर्वैः निर्दिष्टः भवति स्म । मुम्बयीनगरे जातः अयम् एतावता २५ टेस्टक्रीडासु नायकत्वं निरूढवानस्ति । तेण्डुलकरस्य द्दढाग्रहः निष्ठायुता परिश्रमशीलता च तस्य यशसः कारणानि । एकदिनात्मिकायां क्रीडायां तेन १०० क्रीडापटवः बाह्यीकृताः, १०० कन्दुक-ग्रहणानि कृतानि च सन्ति । प्रसिद्धस्य वीक्षकविवरणकर्तुः हर्षाभोग्लेवर्यः वदति -‘सचिनः क्रिकेटरूपस्य गौरीशङ्करपर्वतस्य शिखरे एव स्थितः अस्ति’ इति ।

सचिन् रमेश् तेण्डुल्कर् एप्रिल्मासस्य २४ तमे दिने १९७३ तमे वर्षे जातः। अयं भारतीयक्रिकेट्-क्रीडालुः विश्वस्य क्रिकेट्-इतिहासे अतिश्रेष्ठक्रिकेट्-ब्याट्स्मन् वर्तते । सः क्रिकेट्-इतिहासे एव अत्यधिकशतकानि अपि साधितवानस्ति, पञ्चदिवसीय क्रिकेट् क्रीडास्पर्धायां (टेस्ट् इति कथ्यते) एकदिवसीयायाम् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायां च । एकदिवसीयक्रीडायां द्विशतकं धावनाङ्कान् साधितवत्सु क्रीडालुषु एषः प्रथमः अस्ति । २००२ तमे वर्षे यदैषः १२ वर्षाणिमात्रं क्रीडितवानासीत् तदा एव क्रिकेट्-क्रीडासम्बद्धा विस्डेन्नामिका पत्रिका उदघोषयत् यत् 'एषः विश्वस्य अतिश्रेष्ठेषु दाण्डिकक्रीडालुषु सार्वकालिकद्वितीयायां श्रेण्यां तिष्ठति, टेस्ट्-क्रिकेट्-क्रीडायां प्रसिद्धस्य क्रीडालोः डोनाल्ड् ब्राड्मन्स्य समनन्तरमिति, एकदिवसीय-क्रिकेट्-स्पर्धायामपि क्रीडालोः विवियन् रिचर्ड्स्स्य समनन्तरम् एषः एव तिष्ठति इति । २००७ तमे वर्षे सेप्टम्बर्मासे आस्ट्रेलियादेशस्य ख्यातः कन्दुकक्षेपकः(bowler) शेन् वार्न् अवदत् यत् 'तेण्डुल्करः स्वेन साकं क्रीडितवत्सु अतिश्रेष्ठः क्रीडालुः' इति । २०११ तमे वर्षे भारतीयक्रिकेट्-गणेन विश्वप्रशस्तिस्पर्धायां यः विक्रमः प्राप्तः तस्य प्राप्तौ तेण्डुल्करस्य पात्रं मुख्यम् आसीत् । सचिनः विश्वप्रशस्ति-क्रिकेट्-स्पर्धायां षड्वारं भागम् ऊढवान् अस्ति ।

छायाचित्राणि

बाह्यसम्पर्कतन्तु

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सचिन_तेण्डुलकर&oldid=473908" इत्यस्माद् प्रतिप्राप्तम्