कामक्रोधवियुक्तानां...

श्लोकः

गीतोपदेशः
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षड्विंशतितमः (२६) श्लोकः ।

पदच्छेदः

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितः ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

अन्वयः

कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिवाणम् अभितः वर्तते ।

शब्दार्थः

कामक्रोधवियुक्तानाम् = रागद्वेषरहितानाम्
यतचेतसाम् = नियतबुद्धीनाम्
विदितात्मनाम् = आत्मज्ञानाम्
यतीनाम् = सन्न्यासिनाम्
ब्रह्मनिर्वाणम् = मोक्षः
अभितः = सर्वतः
वर्तते = विद्यते ।

अर्थः

कामक्रोधाभ्यां वियुक्तानां संयतान्तःकरणानां विदितात्मनां सन्न्यासिनां जीवतां मृतानां चेति उभयतः अपि मोक्षः वर्तते ।

शाङ्करदर्शनम्

किंच कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणंममोक्षो वर्तते, विदितात्मानां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यगदर्शिनामित्यर्थः ।।26।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
लभन्ते ब्रह्मनिर्वाणम्...
कामक्रोधवियुक्तानां...अग्रिमः
स्पर्शान्कृत्वा बहिर्बाह्यान्...
कामक्रोधवियुक्तानां...

१)संन्यासं कर्मणां कृष्ण...२)संन्यासः कर्मयोगश्च...३)ज्ञेयः स नित्यसंन्यासी...४)साङ्ख्ययोगौ पृथग्बालाः...५)यत्साङ्ख्यैः प्राप्यते स्थानं...६)संन्यासस्तु महाबाहो...७)योगयुक्तो विशुद्धात्मा...८)नैव किञ्चित्करोमीति...९)प्रलपन्विसृजन्गृह्णन्...१०)ब्रह्मण्याधाय कर्माणि...११)कायेन मनसा बुद्ध्या...१२)युक्तः कर्मफलं त्यक्त्वा...१३)सर्वकर्माणि मनसा...१४)न कर्तृत्वं न कर्माणि...१५)नादत्ते कस्यचित्पापं...१६)ज्ञानेन तु तदज्ञानं... १७)तद्बुद्धयस्तदात्मानः१८)विद्याविनयसम्पन्ने...१९)इहैव तैर्जितः सर्गो...२०)न प्रहृष्येत्प्रियं प्राप्य...२१)बाह्यस्पर्शेष्वसक्तात्मा...२२)ये हि संस्पर्शजा भोगाः...२३)शक्नोतीहैव यः सोढुं...२४)योऽन्तःसुखोऽन्तरारामः...२५)लभन्ते ब्रह्मनिर्वाणम्...२६)कामक्रोधवियुक्तानां...२७)स्पर्शान्कृत्वा बहिर्बाह्यान्...२८)यतेन्द्रियमनोबुद्धिः...२९)भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय