अमरकोशः
उपकरण
सामान्य
मुद्रणम्/निर्यातः
अन्येषु प्रकल्पेषु
अमरकोशः (आङ्ग्लभाषा:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशः अस्ति। शब्दार्थकोशाः 'निघण्टुः' इति कथ्यते। नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७)। 'अर्थान् निघण्ट्यत्यस्मात् निघण्टुः परिकीर्तितः'। अत्र शब्दानां सङ्ग्रहः, समानार्थकाः पर्यायशब्दाः, अनेकार्थकाः शब्दाः च अत्र उपलभ्यन्ते । संस्कृते सर्वविधानां कोशानां मूलम् अस्ति वैदिकनिघण्टुः। यास्केन रचितः निरुक्तः अस्य वैदिकनिघण्टोः भाष्यम्।
अमरकोशः श्लोकरूपेण रचितः अस्ति। अतः कण्ठपाठार्थं बहु सुलभं भवति। अमरकोशे त्रीणि काण्डानि (अध्यायाः) सन्ति। स्वर्गादिकाण्डं, भूवर्गादिकाण्डं,सामान्यादिकाण्डम् चेति। एकैकस्मिन् काण्डे अनेके वर्गाः सन्ति। विषयानुगुणं शब्दाः अत्र वर्गीकृताः सन्ति। नानार्थवर्गे विषयविभागः अशक्यः इत्यतः अत्र अन्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतम् अस्ति। शब्देन सह अत्र लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं कोशः अत्यन्तम् उपयुक्तः अस्ति।
स्वर्गादिकाण्डे एकादश वर्गाः सन्ति। तानि
अस्मिन् काण्डे दश वर्गाः सन्ति। तानि
अस्मिन् षड्वर्गाः सन्ति। तानि
'अष्टाध्यायी जगन्मातामरकोशो जगत्पिता' इत्येषा उक्तिः अमरकोशस्य श्रेष्ठतां दर्शयति। संस्कृतभाषायाः साम्प्रदायिकाध्ययनक्रमे अमरकोशस्य कण्ठपाठः अनिवार्यरूपेण योजितः आसीत्। अमरसिंहः तस्मिन् समये विद्यमानान् सर्वान् निघण्टून् शास्त्रान्तराणि च परिशील्य एव एतं ग्रन्थं रचितवान् अस्ति। अतः एव ग्रन्थस्य आरम्भे सः लिखति - 'समाहृत्यान्यतन्त्राणि' इति। व्याकरणशास्त्रे तस्य विशेषा अभिरुचिः आसीत्। पाणिनेः अष्टाध्याय्याः सूत्र-वार्तिक-भाष्यादीनि सम्यक् परिशील्य तान् शब्दान् अमरकोशे योजितवान् अस्ति। अतः एव 'अमरसिंहो हि पापीयान् सर्वं भाष्यमचूचरत्' (अमरसिंह्ः व्याकरणभाष्यं समग्रं चोरितवान्!) इति व्याजस्तुतिः पण्डितगोष्ठीषु प्रसिद्धा अस्ति।
अमरकोशस्य ५० व्याख्यानानि उपलभ्यन्ते। तेषु प्रमुखानि -क्षीरस्वामिना विरचितम् 'अमरकोशोद्घाटनम्' भानुदीक्षितेन विरचितं 'व्याख्यासुधा' वन्ध्यघटीयसर्वानन्देन विरचितं 'टीकासर्वस्वम्'रायमुक्तेन विरचितं 'पदचरितम्'जिनेन्द्रभूदिना विरचितं 'काशिकाविवरणपञ्जिका'
पीठिकाश्लोकाः
स्वर्गः
बुद्धिः
भूमिः
नमस्कृतम्
पूजितम्
ककारान्ताः