विश्वकोशः

यस्मिन् लोके विद्यमानाः प्रायेण सर्वेऽपि विषयाः व्यवस्थितरूपेण निरूपिताः भवन्ति सः विश्वकोषः इत्युच्यते।[१]

ब्रिटानिक् इङ्ग्लिष् विश्वकोषस्य १५तमी आवृत्तिः। (क्रि.श १९७४-२०१०)
अद्यत्वे सङ्गणके अन्तर्जालद्वारा प्राप्तुं शक्यः विश्वकोषः

व्युत्पत्तिः

विश्वकोषः [आङ्लम्: Encyclopedia / Encyclopaedia एन्^सैक्ल(/सैक्लो)पीडिअ] इति विश्वे विद्यमानां सर्वेषां विषयाणां कोषः।

इतिहासः

Naturalis Historiæ - १६६९ तमावृत्त्याः शीर्षकपुटम्
  • विश्वकोषसदृशाः ग्रन्थाः प्रायेण २००० वर्षेभ्यः प्राक् अपि आसन्। क्रि.पू ११६ तमे वर्षे रोम्-देशस्य मार्कस् टेरेन्सि अस्-वारो(Marcus Terentius Varro) इत्येषः नैन् बुक्स् आफ डिसिप्लीन्स्(Nine Books of Disciplines) इति विश्वकोषसदृशं ग्रन्थम् अरचयत्। एषः ग्रन्थः विश्वकोषकर्तॄणां मार्गदर्शकः अभवत्।
  • क्रि.श ७७-७८ तमे वर्षे रोम् देशस्य फ्लिनि दि एल्डर्(Pliny the Elder) इत्येषः न्याचुरल् हिस्टरी(Natural History, Naturalis Historia) इति विश्वकोषं रचितवान्। क्रि.श ८०० तमे वर्षे विरचिते चीना-देशस्य टुयु इत्येतस्य विश्वकोषे विषयाः व्यवस्थितरूपेण विभक्ताः आसन्।
  • क्रि.श ९४७-१००२ वर्षेषु चीना-देशस्य उषु इत्येषः ३० भागात्मकं विश्वकोषं व्यरचयत्। आधुनिकविश्वकोषाणां रचनं १७-१८ शतमानकाले आरब्धम्।
ब्रिटानिक् इंग्लिष् विश्वकोषस्य प्रथमा आवृत्तिः। (क्रि.श १७६८-१७७१)
Brockhaus Konversations Lexikon - जर्मन् विश्वकोषस्य १४तमावृत्तिः। (१८९६–१९०८)

प्रसिद्धाः विश्वकोषाः

  • एन्सैक्लोपीडिया ब्रिटानिका: एषः आधुनिकविश्वकोषेषु प्राचीनतमः। एतस्य प्रथमा आवृत्तिः १७६८ तमे वर्षे प्रकाशिता।
  • विकिपीडिया: एषः कश्चन अन्तर्जाल-आधारितः विश्वकोषः। अत्र अनेकासु भाषासु लेखाः समुपलभ्यन्ते। आङ्लभाषायामेव प्रायः ४.७ दशलक्षं लेखाः वर्तन्ते।

भारते विश्वकोषाणां संरचनम्

  1. पौराणिकविषयैः सह वैद्यकीयं, व्याकरणं, ज्यौतिषं, नाट्यं, सङ्गीतेत्यादयः विषयाः गरुडपुराणे, अग्निपुराणे नारदपुराणे च विद्यन्ते। एते ग्रन्थाः वाङ्मयकोषाः इत्युच्यन्ते।
  2. 'षड्दर्शनसमुच्चयः' इत्येषः आयुर्वेदग्रन्थोऽपि विश्वकोषकल्पः। आग्नेयपुराणम् सर्वविद्यासङ्ग्रह इति नाम्ना विश्वकोषस्वरूपतां भजते।
  3. क्रि.श १९०२-१९११ वर्षे बेङ्गालिभाषया रङ्गनाथमुखर्जी एवं नागेन्द्रनाथबसु इत्याभ्यां विरचितः २२ सम्पुटात्मकः विश्वकोषः भारतस्य प्रथमः विश्वकोषः इति कीर्तिभाक् भवति।
  4. क्रि.श १९१३ तमे वर्षे कोमराजु वेङ्कटलक्ष्मणराव् इत्येषः तेलुगुभाषया विश्वकोषं प्रकाशयितुं प्रायतत।
  5. क्रि.श १९६२ तमे वर्षे चेन्नै नगरतः ९ सम्पुटात्मकः विश्वकोषः तमिळुभाषया प्रकाशितः।
  6. क्रि.श१९७२ तमे वर्षे केरळतः सर्वविज्ञानकोषम् इति २० सम्पुटात्मकः विश्वकोषः प्रकाशितः।

टिप्पणी

उद्धरणम्

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=विश्वकोशः&oldid=480969" इत्यस्माद् प्रतिप्राप्तम्