शिरोवेदना
‘’’शिरोवेदना’’’ (Headache) कश्चन रोगः । मस्तिष्के विद्यमाना वेदना । कपालस्य (मस्तिष्कस्य)अन्तर्भागे बहिर्भागेच विद्यामानाः रक्तनालाः , पटलाः , मांसखण्डाः च वेदनां मनसे सूचयन्ती (संवेदयन्ति)। कपालस्य अन्तर्भागे बहिर्भागेच विद्यामानाः रक्तनालाः यदि आभोगायन्ते तर्हि शिरोवेदनायाति ।
शिरोवेदनायाः कारणानि
- मस्तिष्के ग्रन्थयः वर्धमानाः भवन्ति चेत् अन्तः वेदनाम् उत्पादयन्ति । एतदपि शिरोवेदनायाः मुख्यं कारणं भवति ।
- मस्तिष्कस्य विविधेभ्यः भागेभ्यः निपिडा यदा भवति तदा शिरोवेदना आयाति ।
- ज्वरे , अपस्माररोगे, मद्यसेवने च शिरोवेदना आयाति ।
- पञ्चेन्द्रियेषु कस्यापि एकस्य व्रणादिकं भवति चेदपि शिरोवेदना आयाति ।
- शरीरे अव्यवस्थायाः कारणेन ज्वरपीडितः सन्, ज्वरविषः रक्ते मिलित्वा रक्तनालाः स्पाययन्ति । अनेन कारणेन शिरोवेदना आयाति ।
- मलबद्धतायाः कारणेन अन्त्रे विषः प्रविश्य रक्ते मिश्रितोभूत्वा शिरोवेदना आयाति ।
- मूत्रधातोः आधिक्येन रक्ते धातुः मिश्रितोभूत्वा शिरोवेदना आयाति ।
- गुराणिकग्रन्थेः रसाभावात् शिरोवेदना आयाति ।
- रक्ते शर्करांशप्रमणस्य न्यूनता भवति चेत् शिरोवेदना आयाति । भोजनोत्तरम् अधिकतया शिरोवेदना आयाति ।
- मनोद्वेगः , चिन्ता, भयादिकं यदि भवन्ति तदा शिरोवेदना आयाति ।
- मानसिकास्वस्थः चेत् शिरोवेदना आयाति ।
- दृष्टिदोषाता शिरोवेदना आयाति ।
उपायाः औषधानिच
- शिरोवेदना आयाति चेत् विश्रान्तिः स्वीकर्तव्या ।
- स्नानकरणेन शिरोवेदना अपगच्छति ।
- वैद्यस्य मार्गदर्शनं प्राप्तव्यम् ।
योगचिकित्सा
उक्तानां योगासनानां करणेन रक्तसञ्चारः सरलतया भवति । तेन शिरोवेदना अपगच्छति । शिरोवेदनायाः उपशमनार्थं योगशास्त्रे कानिचन आसनानि उक्तानि । तानि एतानि भवन्ति,
शिरशासनम्
सर्वाङ्गसनम्
हलासनम्
शवासनम्
वज्रासनम्
बाह्यानुबन्धः
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्