१९०५
१९०५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
घटनाः
जनवरी-मार्च्
एप्रिल्-जून्
- अस्मिन् वर्षे जून् मासस्य १२ दिनाङ्के गोपालकृष्णगोखले नेतृत्वे "Servants of India" इत्यस्याः सामाजिकसंस्थायाः स्थापना अभवत् ।
जुलै-सेप्टेम्बर्
अक्टोबर्-डिसेम्बर्
अज्ञाततिथीनां घटनाः
- अस्मिन् वर्षे रष्यादेशीयः विज्ञानी इलिच् मेच्निकाफ् नामकः "रक्ते विद्यमानानां "फ्यागोसैट्" इत्येतेषां कार्यस्य" संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
- अस्मिन् वर्षे फ्रेडरिक् ब्ल्याक्मन् नामकः सस्यविज्ञानी सस्यानां वर्धनस्य अवरोधकान् अंशान् संसोधितवान् ।
- अस्मिन् वर्षे फ्रान्स्-देशीयौ आल्फ्रेड् बीने तथा थियोडोर् सैमन् नामकौ बालानां बुद्धिमत्तायाः परीक्षार्थं अनेकाः परीक्षाः सज्जीकृतवन्तौ ।
- अस्मिन् वर्षे जर्मनीदेशीयः वैद्यविज्ञानी राबर्ट् कोख् क्षयरोगस्य कारणीभूतान् "ब्याक्तीरिया" नामकान् सूक्ष्मजीवीन् संशोध्य "नोबेल्"प्रशस्तिं प्राप्नोत् ।
- अस्मिन् वर्षे तमिळुलिपिसदृशग्रन्थलिप्या लिखितः कौटिल्यस्य अर्थशास्त्रम् देवनागरीलिप्या पुनर्लिखित्वा श्यामशास्त्री लोकाय अर्पितवान् ।
- अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी डा. लेस्लि सि. कोल्मन् कोल्मन् टोराण्टो-विश्वविद्यालयतः वैद्यपदवीं प्राप्नोत् ।
- अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमस्य मुदवीडुकृष्णरायस्य कादम्बरी "चित्तूर मुत्तिगे" प्रकाशिता ।
- अस्मिन् वर्षे भारतस्य संविधानस्य रचयितुः बि.आर्.अम्बेड्करस्य विवाहः रमाबाय्या सह जातः ।
जन्मानि
- अस्मिन् वर्षे भारतस्य प्रसिद्धः चतुरङ्गक्रीडापटुः मीर् सुल्तान् खान् पञ्जाब्राज्ये "मित्था" इति प्रदेशे जन्म प्राप्नोत् ।
- अस्मिन् वर्षे कर्णाटकस्य प्रसिद्धः कविः पु ति नरसिंहाचार्यः भारतदेशस्य कर्णाटकराज्यस्य "मेलुकोटे" इति प्रदेशे जन्म प्राप्नोत् ।
- अस्मिन् वर्षे आधुनिक-संस्कृतमहाकाव्यरचयितृषु अन्यतमः श्रीकृष्णरामभट्टः भारतस्य राजस्थानराज्यस्य "जयपुरे" जन्म प्राप्नोत् ।
- अस्मिन् वर्षे "मास्टर् हिरण्णयः" इत्येव प्रसिद्धः कन्नडवृत्तिनाटकरङ्गस्य प्रमुखेषु अन्यतमः, कन्नडभाषायाः लेखकः हिरण्णय्यः बेङ्गळूरुनगरे जन्म प्राप्नोत् ।
जनवरी-मार्च्
एप्रिल्-जून्
जुलै-सेप्टेम्बर्
अक्टोबर्-डिसेम्बर्
निधनानि
- अस्मिन् वर्षे भारतस्य महान् दार्शनिकः समाज-सुधारकः रवीन्द्रनाथठाकुरस्य पिता देवेन्द्रनाथ ठाकुरः इहलोकम् अत्यजत् ।
जनवरी-मार्च्
एप्रिल्-जून्
जुलै-सेप्टेम्बर्
अक्टोबर्-डिसेम्बर्
बाह्य-सूत्राणि
सम्बद्धाः लेखाः
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्रामानुजाचार्यःसंस्कृतम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्विकिपीडिया:साहाय्यम्विकिपीडिया:स्वागतम्सदस्यसम्भाषणम्:Rajoriyaकालिदासःकणादःभारतम्पार्श्वनाथःरामनवमीवेदान्तःकपिलः (ऋषिः)विकिपीडिया:General disclaimerपतञ्जलिःक्वेदव्यासःविकिपीडियाआदिशङ्कराचार्यःजातीगौतमःयदा यदा हि धर्मस्य...विश्वनाथः (आलङ्कारिकः)मध्वाचार्यःध्वन्यालोकःजैमिनिःसांख्ययोगःअभिज्ञानशाकुन्तलम्भगवद्गीतासाहित्यदर्पणःभासःअद्वैतवेदान्तःमाधवीमाघःपुराणम्मेघदूतम्