उदजन

उदजनः एकम् रासायनिकम् तत्वमस्ति, यस्य परमाणुक्रमाङ्कः १ इति। एषः सर्वस्मिन् तत्वेषु लघिष्ठः। तथा सामान्यतः अयम् वायौ द्विपरमाण्विकाणूनाम् कश्चित् वातकः, अर्थात् उदजनवातः इति। रंगहीनः, गंधहीनः, अविषाक्तः तथा अत्यंतः ज्वलनशीलः अयम्। अयम् ब्रह्मांडे पदार्थानाम् ७५% , अतएव सर्वेषु पदार्थेषु प्रचुरतमः च। बहूनाम् तारकानाम्, यथा सूर्यस्य परमघटकः, तथा तस्मिन् प्लाज्मा-अवस्थायाम् अवस्थितः। अधिकतः उदजनः पृथिव्याम् आण्विकरूपे विद्यमानः, यथा जले अथवा अन्येषु क्षामिक-यौगिकेषु। अस्य सर्वाधिकप्राप्तसमस्थानिकस्य (चिन्हं 1H इति) प्रत्येकः परमाणौ १ प्राणुः, १ विद्युदणुः तथा न कोऽपि निर्पेक्षाणुः।

गुणधर्माः

प्रदहनः

वायौ अम्लजनेन सह उदजनस्य प्रदहनः।‌
अन्तरिक्षयानस्य चालकयन्त्रम् अम्लजनः उदजनश्च दाहयति, ततः अतिवेगिता अदृष्टप्रायः प्रज्वाला उत्पादयति

उदजनवातः (द्विउदजनम् वा आण्विकः उदजनः) अतिज्वलनशीलः।

२H(वा) + O(वा) → २ HO(द्र) + ५७२ kJ (२८६ kJ/mol)[१]

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=उदजन&oldid=463818" इत्यस्माद् प्रतिप्राप्तम्