एवं परम्पराप्राप्तम्...

भगवद्गीतायाः श्लोकः ४.२

श्लोकः

गीतोपदेशः
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः सः कालेन इह महता योगः नष्टः परन्तप ॥ २ ॥

अन्वयः

परन्तप ! एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः । महता कालेन सः योगः इह नष्टः ।

शब्दार्थः

परन्तप = शत्रुञ्जय
एवम् = इत्थम्
परम्पराप्राप्तम् = सम्प्रदायात् आगतम्
इमम् = अमुम्
राजर्षयः = राजश्रेाः
विदुः = अजानन्
महता = दीर्घेण
कालेन = समयेन
सः = एषः (पूर्वोक्तः)
योगः = योगः
इह = अत्र
नष्टः = लुप्तः ।

अर्थः

इत्थं परम्पराप्राप्तम् अमुं योगं राजर्षयः अजानन् । ततः बहोः कालात् सः योगः अत्र नष्टप्रायः सम्पन्नः ।

शाङ्करभाष्यम्

एवमिति। एवं क्षत्रियपरंपराप्राप्तमिमं राजर्षयो राजानश्च त ऋषयश्च राजर्षयो विदुरिमं योगम्। स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्नसंपआदायः संवृत्तः।हे परंतप, आत्मनो विपक्षभूताः पर उच्यन्ते तान् शौर्यतेजोगभस्तिभिर्भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः।।2।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
इमं विवस्वते योगं...
एवं परम्पराप्राप्तम्...अग्रिमः
स एवायं मया तेऽद्य...
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं...२)एवं परम्पराप्राप्तम्...३)स एवायं मया तेऽद्य...४)अपरं भवतो जन्म...५)बहूनि मे व्यतीतानि...६)अजोऽपि सन्नव्ययात्मा...७)यदा यदा हि धर्मस्य...८)परित्राणाय साधूनां...९)जन्म कर्म च मे दिव्यम्...१०)वीतरागभयक्रोधा...११)ये यथा मां प्रपद्यन्ते...१२)काङ्क्षन्तः कर्मणां सिद्धिं...१३)चातुर्वर्ण्यं मया सृष्टं...१४)न मां कर्माणि लिम्पन्ति...१५)एवं ज्ञात्वा कृतं कर्म...१६)किं कर्म किमकर्मेति...१७)कर्मणो ह्यपि बोद्धव्यं...१८)कर्मण्यकर्म यः पश्येद्...१९)यस्य सर्वे समारम्भाः...२०)त्यक्त्वा कर्मफलासङ्गं...२१)निराशीर्यतचित्तात्मा...२२)यदृच्छालाभसन्तुष्टो...२३)गतसङ्गस्य मुक्तस्य...२४)ब्रह्मार्पणं ब्रह्म हविः...२५)दैवमेवापरे यज्ञं...२६)श्रोत्रादीनीन्द्रियाण्यन्ये...२७)सर्वाणीन्द्रियकर्माणि...२८)द्रव्ययज्ञास्तपोयज्ञा...२९)अपाने जुह्वति प्राणं...३०)अपरे नियताहाराः...३१)यज्ञशिष्टामृतभुजो...३२)एवं बहुविधा यज्ञा...३३)श्रेयान्द्रव्यमयाद्यज्ञात्...३४)तद्विद्धि प्रणिपातेन...३५)यज्ज्ञात्वा न पुनर्मोहम्...३६)अपि चेदसि पापेभ्यः...३७)यथैधांसि समिद्धोऽग्निः...३८)न हि ज्ञानेन सदृशं...३९)श्रद्धावॉंल्लभते ज्ञानं...४०)अज्ञश्चाश्रद्दधानश्च...४१)योगसंन्यस्तकर्माणं...४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय