न हि ज्ञानेन सदृशं...

श्लोकः

गीतोपदेशः
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।

पदच्छेदः

न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

अन्वयः

ज्ञानेन सदृशं पवित्रम् इह नहि विद्यते । तत् स्वयं योगसंसिद्धः कालेन आत्मनि विन्दति । ।

शब्दार्थः

ज्ञानेन = ब्रह्मज्ञानेन
सदृशम् = तुल्यम्
पवित्रम् = पावनम्
इह = अत्र
नहि विद्यते = नास्ति
तत् = ज्ञानम्
स्वयम् = आत्मना एव
योगसंसिद्धः = समाधिनिः
कालेन = महता समयेन
आत्मनि = स्वस्मिन्
विन्दति = लभते ।

अर्थः

इह लोके ज्ञानेन समं पवित्रम् अन्यत् न किञ्चन विद्यते । तत् ज्ञानं फलापेक्षां विना कर्म कुर्वन् पुरुषः गच्छता कालेन चित्तशुद्धिम् अवाप्य स्वयमेव आत्मनि प्राप्नोति ।

शाङ्करभाष्यम्

यत एवमतो-नहीति। नहि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरमिह विद्यते। तज्ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतोयोग्यतामापन्नो मुमुक्षुः कालेन महता त्मनि विन्दति। लभत इत्यर्थः।।38।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यथैधांसि समिद्धोऽग्निः...
न हि ज्ञानेन सदृशं...अग्रिमः
श्रद्धावॉंल्लभते ज्ञानं...
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं...२)एवं परम्पराप्राप्तम्...३)स एवायं मया तेऽद्य...४)अपरं भवतो जन्म...५)बहूनि मे व्यतीतानि...६)अजोऽपि सन्नव्ययात्मा...७)यदा यदा हि धर्मस्य...८)परित्राणाय साधूनां...९)जन्म कर्म च मे दिव्यम्...१०)वीतरागभयक्रोधा...११)ये यथा मां प्रपद्यन्ते...१२)काङ्क्षन्तः कर्मणां सिद्धिं...१३)चातुर्वर्ण्यं मया सृष्टं...१४)न मां कर्माणि लिम्पन्ति...१५)एवं ज्ञात्वा कृतं कर्म...१६)किं कर्म किमकर्मेति...१७)कर्मणो ह्यपि बोद्धव्यं...१८)कर्मण्यकर्म यः पश्येद्...१९)यस्य सर्वे समारम्भाः...२०)त्यक्त्वा कर्मफलासङ्गं...२१)निराशीर्यतचित्तात्मा...२२)यदृच्छालाभसन्तुष्टो...२३)गतसङ्गस्य मुक्तस्य...२४)ब्रह्मार्पणं ब्रह्म हविः...२५)दैवमेवापरे यज्ञं...२६)श्रोत्रादीनीन्द्रियाण्यन्ये...२७)सर्वाणीन्द्रियकर्माणि...२८)द्रव्ययज्ञास्तपोयज्ञा...२९)अपाने जुह्वति प्राणं...३०)अपरे नियताहाराः...३१)यज्ञशिष्टामृतभुजो...३२)एवं बहुविधा यज्ञा...३३)श्रेयान्द्रव्यमयाद्यज्ञात्...३४)तद्विद्धि प्रणिपातेन...३५)यज्ज्ञात्वा न पुनर्मोहम्...३६)अपि चेदसि पापेभ्यः...३७)यथैधांसि समिद्धोऽग्निः...३८)न हि ज्ञानेन सदृशं...३९)श्रद्धावॉंल्लभते ज्ञानं...४०)अज्ञश्चाश्रद्दधानश्च...४१)योगसंन्यस्तकर्माणं...४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय