क्षीरपथ-आकाशगङ्गा

क्षीरपथ-आकाशगङ्गा (आङ्ग्ल: Milky Way) काचित् आकाशगङ्गा (गैलक्सी) । सौरमण्डलस्य केन्द्रभूतः सूर्यः अस्याः आकाशगङ्गायाः अंशः । अर्थात् वयम् अस्याम् आकाशगङ्गायां निवसामः । एषा एका सर्पिलाकारका आकाशगङ्गा । देवयानी-आकाशगङ्गा (एन्ड्रोमेडा आकाशगङ्गा) क्षीरपथ-आकाशगङ्गायाः प्रतिवेशी आकाशगङ्गा अस्ति । एषा आकाशगङ्गा मन्दाकिनी इत्यपि उच्यते ।

क्षीरपथ-आकाशगङ्गा
वैज्ञानिकमतानुसारं क्षीरपथ-आकाशगङ्गायाम् अस्माकं सौरमण्डलस्य स्थितिः
पर्यवेक्षणतथ्यानि
प्रकारःगोलाकारकाकाशगङ्गा (बेरेड् स्पैरल् गैलेक्सी)
व्यासः१००,००० प्रकाशवर्षः[१]
घनत्वम्१,००० प्रकाशवर्षः[१]
नक्षत्राणां संख्या२००–४०० अर्बुदम् (२–४×१०११) [२][३]
प्राचीनतमनक्षत्रम्१३.२ अर्बुदम् वर्षाणि
भरः७.०×10११ भ (१.४×10४२ कि॰लो॰)
आकशगङ्गायाः केन्द्रतः
सूर्यस्य दूरत्वम्
२६,४००±१,६०० प्रकाशवर्षः[४][५][६][७]
सूर्यस्य आकशगङ्गायाः
परिक्रमणकालः
२५ कोटिः वर्षाणि [८]
आकाशगङ्गायाः परिक्रमणकालः५ कोटिः वर्षाणि[९]
आकाशगङ्गायाः
उल्लम्ब-परिक्रमणकालः
१.५-१.८ कोटिः वर्षाणि[९]
महाजागतिकगतिः५५२ कि मि/से[१०]
सन्दर्भलेखाः- आकाशगङ्गा, Z8 GND 5296-आकाशगङ्गा

पृथ्वीतः पर्यवेक्षणम्

क्षीरपथ-आकाशगङ्गा रात्रौ आकाशस्य एकस्मिन् प्रान्ततः अपरप्रान्तपर्यन्तम् अस्पष्टमेघसदृशः विस्तृतः इव दृश्यते । नगरप्रदेशेषु तथा अधिकप्रकाशसंयुक्तस्थलात् एषा आकाशगङ्गा स्पष्टतया न दृश्यते ।

टिप्पणी

बहिःसंयोगः