मिश्रेयसस्यम्

एषा कारवी भारते अपि वर्धमानः कश्चन हरितकविशेषः । इयं कारवी तृणकुलीया । इदम् अपि किञ्चन सस्यम् । अतः कारवी अपि सस्यजन्यः आहारपदार्थः । इयं कारवी आङ्ग्लभाषायां Dill इति उच्यते । अनया कारव्या क्वथितं, सारः, व्यञ्जनं, दोसा, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एषा कारवी अल्पकालिका बहुवार्षिका च । तन्नाम एतत् कारवीसस्यम् अल्पेन एव कालेन वर्धते, तथैव बहूनि वर्षाणि यावत् जीवति, फलं ददाति इति । एषा कारवी "अनेथन्" इति सस्यजातेः एकमात्रसस्यम् अस्ति । एतत् कारवी सस्यं ४०-५० से.मी. यावत् वर्धते ।

मिश्रेयसस्यम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Asterids
गणःApiales
कुलम्Apiaceae
वंशःAnethum
L.
जातिःA. graveolens
द्विपदनाम
Anethum graveolens
L.
कारवीसस्यम्

इदं मिश्रेयसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । सामान्यतया इदं मिश्रेयसस्यं शैत्यकाले वर्धते । इदं सस्यम् औषधत्वेन यथा उपयुज्यते तथैव आहारत्वेन अपि उपयुज्यते । सामान्यतया पाके इदं सस्यं शाकत्वेन (हरितकम्) उपयुज्यते । अस्मिन् अनेथिन्, कार्वाल् इत्याख्यौ अंशौ भवतः । अस्य विशिष्टः कश्चन गन्धः अपि भवति ।

इतरभाषाभिः अस्य मिश्रेयसस्यस्य नामानि

इदं मिश्रेयसस्यम् आङ्ग्लभाषया Anathum Sowa इति उच्यते । हिन्दीभाषया “सोय” इति, तेलुगुभाषया “शटकुषि विट्टलु” इति, तमिळ्भाषायां “शतकुपिमर्” इति, मलयाळाभाषया “चतुकुप्प” इति, कन्नडभाषया “सब्बसिगे” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य मिश्रेयसस्यस्य प्रयोजनानि

अस्य मिश्रेयसस्यस्य रसः तिक्तः कटुः च । इदम् उष्णवीर्ययुक्तं, तीक्ष्णं चापि ।

१.इदं मिश्रेयसस्यं कफं वातं च शमयति ।
२.अस्य बीजानां, मूलस्य वा लेपः कीलवेदनां परिहरति ।
३.उदरसमस्यायां, हिक्कायां च अस्य पर्णानां जलम् उपयुज्यते । अस्य मिश्रेयसस्यस्य पर्णानि सम्यक् जलं संस्थाप्य क्त्वथनीयम् । तदवसरे जायमानं भाष्पं सङ्गृह्य सुधाजलेन सह :३ चमसमितं सेवनीयम् ।
४.उपर्युक्तम् एव औषधम् अतिसारसमये जायमानाम् उदरवेदनाम् अपि शमयति ।
५.अस्य कषायं बालानां बुभुक्षां जीर्णशक्तिं च वर्धयति । अस्य बीजानि ३० गुणिते जले संस्थाप्य क्वथनीयम् । अनन्तरं शोधयित्वा शर्करां योजयित्वा पातव्यम् ।
६.अस्य बीजानि भर्जयित्वा मेथिकायाः बीजैः सह चूर्णीकृत्य सेवनेन अतिसारः अपगच्छति ।
७.अस्य पर्णानाम् उपरि तैलं लेपयित्वा पिष्टपचनस्य उपरि उष्णीकृत्य पिटकानाम् उपरि लेपनेन पिटकाः उद्घाटिताः भवन्ति ।
८.इदं मातॄणां स्तन्यं वर्धयति । अतः प्रसूतवतीनां महिलानां कृते प्रतिदिनं भोजने शाकत्वेन दातुं शक्यते ।
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मिश्रेयसस्यम्&oldid=389579" इत्यस्माद् प्रतिप्राप्तम्