कारकम्

क्रमवतां वर्णानां समूहः पदम् । पदसमूहः वाक्यम् । वाक्यम् अभीप्सितम् अर्थं बोधयति । अतः शब्दप्रपञ्चे वाक्यमेव प्राधान्यम् आवहति । किन्तु पदम् अन्तरा वाक्यं न भवति । ऋते वर्णेभ्यः पदं नास्ति । अतः व्याकरणे वर्णनिमित्तानि कार्याणि, पदनिमित्तानि कार्याणि च सन्ति । प्रायः सन्धिकार्याणि वर्णनिमित्तकानि । समासादीनि पदनिमित्तकानि । वाक्यम् अवलम्ब्य प्रवृत्तानि भवन्ति कारकाणि कारकसम्बन्धीनि कार्याणि च । साक्षात् परम्परया वा वाक्यानि संस्कर्तुम् एव व्याकरणं प्रवृत्तम् । सम्प्रति कारकाणि कारकसम्बन्धीनि कार्याणि च इह प्रस्तूयन्ते ।

कारकम्

किं नाम कारकम् ? क्रियान्वयि कारकम् । क्रियायाः अन्वयः = क्रियान्वयः । अन्वयः = सम्बन्धः । क्रियान्वयः अस्य अस्ति इति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति ) सः कारकम् इत्युच्यते इति फलितार्थः । यथा –

  1. पाचकः पचति । अत्र पाचकः पाकक्रियायाम् अन्वेति । अतः पाचकः कारकम् । तच्च प्रकृते कर्तृकारकम् ।
  2. गां स्पृशति । अत्र गौः स्पर्शनक्रियायाम् अन्वेति । अतः सा कारकम् । तच्च प्रकृते कर्मकारकम् ।
  3. परशुना छिनत्ति । अत्र परशुः छेदनक्रियायाम् अन्वेति । अतः कारकम् । तच्च प्रकृते करणकारकम् ।
  4. बालाय फलं ददाति । अत्र बालः दानक्रियायाम् अन्वेति । अतः बालः कारकम् । तच्च प्रकृते सम्प्रदानकारकम् ।
  5. प्रासादात् पतति । अत्र प्रासादः पतनक्रियायाम् अन्वेति । अतः प्रासादः कारकम् । तच्च अपादानकारकम् ।
  6. पीठे उपविशति । अत्र पीठम् उपवेशनक्रियायाम् अन्वेति । अतः पीठं कारकम् । तच्च प्रकृते अधिकरण-कारकम् ।

कर्तृकारकं क्रियायां साक्षात् अन्वेति । अन्यानि कारकाणि तु परम्परया क्रियायाम् अन्वयं प्राप्नुवन्ति इति ज्ञेयम् ।इदं परिशील्यताम् –कः, कां, केन, कस्मै, कस्मात्, कुत्र ददाति इति प्रश्नः (अयोध्यायाः) राजा, गां, हस्तेन, विप्राय, गोष्ठात्, गङ्गातीरे ददाति इति वाक्येन समाहितः भवति । अतः दानक्रियायां षडपि कारकाणि अन्वितानि भवन्ति इति स्पष्टम् । ‘कस्य राजा’ इति प्रश्नस्तु ‘अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः अन्वयः राज्ञि एव, न तु दानक्रियायाम् । अतः षष्ठी (शेषषष्ठी) कारकं न इति उद्घोषः ।

इत्थञ्च क्रियया सह कारकाणां सम्बन्धस्य परिशीलनाय प्रश्नोत्तररुपः पन्थाः सुगमः । यथा –‘कः पचति?’ = कः पाकक्रियां निर्वर्तयति ? इति उत्थितायाः आकांक्षायाः (प्रश्नस्य )उपशमनं देवदत्तः पचति=‘ देवदत्तः पाकक्रियां निर्वर्तयति’ इति वाक्येन (उत्तरेण ) भवति । देवदत्तस्य कर्तुः पाकक्रियया सह सम्बन्धः यदि न अभविष्यत् तर्हि आकांक्षायाः उपशमनमपि न अभविष्यत् । जातञ्च उपशमनम् आकांक्षायाः । अतः क्रियया सह सम्बन्धः अस्तीति ज्ञायते । एवम् अन्यकारकादौ अपि ज्ञेयम् ।

एतानि षट् कारकाणि स्मर्तुम् अयं सरलः श्लोकः -

कर्ता कर्म च करणं सम्प्रदानं तथैव च ।
अपादानाधिकरणम् इत्याहुः कारकाणि षट् ॥ इति ।
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कारकम्&oldid=395249" इत्यस्माद् प्रतिप्राप्तम्