शुनकः

शुनकः (श्वा वा कुक्कुरः वा) गार्ह्यपशुः अस्ति। प्रायः ४ कोटिवर्षेभ्यः पूर्वं भूमौ मयासिस् इति क्रूरजन्तुः आसीत्। मयासिस् एव शुनकस्य पूर्वजाः इति उहयन्ति। १२ सहस्रवर्षेभ्यः पूर्वं मानवस्य सन्निहिताः आसन् इत्यस्मिन् विषये अधाराः लभ्यन्ते। भारतीय पुराणादिषु शुनकस्य उल्लेखाः सन्ति। मृगयार्थं श्वानस्य उपयोगं सर्वदा पूर्विकाः कुर्वन्तिस्म। युद्धे, एवं गृहादिरक्षणार्थम् उपयोगं कुर्वन्ति। अस्य मुख्यः गुणः घ्राणशक्तिः भवति। अद्यापि विश्वे “श्वानदळः” रक्षणाकार्ये सर्वदा सन्नद्धोऽस्ति। वैद्यकीय संशोधनकार्येषु शुनाकानां उपयोगः नितराम् अस्त्येव। शुनकेभ्यः संशोधितम् औषधं आदौ परीक्षार्थं दास्यन्ति इति।

शुनकः

गुणाः

सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्।
वायुसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गार्दभात्॥
अनेन श्लोकेन शुनकेभ्यः षट् गुणाः ज्ञातव्याः भवन्ति इति ज्ञायते। के ते गुणाः,
बह्वाशीः स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः।
स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः॥

  • सप्रसङ्गभोजनम्
  • अल्पतृप्तः
  • गाढनिद्रा
  • लघुचेतनः
  • स्वामीभक्तः
  • शूरः

जातयः

नामभारः(किलो प्रमाणे)औन्नत्यम्(अङ्गुलप्रमाणे)वर्णःवैशिष्ट्यम्
अल्सेषियन्२८-४०१९-२५कृष्णः,धूम्रः,पीतः,सुरक्षापटुः
डोबर्मन्२०-२८२५-२७कृष्णः,धूम्रः,सुरक्षापटुः
कालि२५-३०२०-२६श्वेतः, कृष्णःसुरक्षापटुः
बुल् मास्टिफ्४०-५०२५-२७रक्तः,कृष्णमुखः,बलिष्ठः
डाष् हण्ड्५-११८-११श्वेतः,पीतःदीर्घदेहयुक्तः वामनः, गृहबालानां मित्रता अतीव सुलभा अस्य
मुधोळ हौण्ड्२२-२८२३-२८श्वेतः, पीतः, रक्तः, कृष्णःसुरक्षापटुः, मृगयापटुः
आफ्घन् हौण्ड्३०-३५२७-३२श्वेतः, कपिषःशान्तः, सुरक्षापटुः
ऐरिष् सेट्टर्२७-३२२५-२७रक्तः, कपिषःमृगयापटुः
बीगल्१४-१७१२-१७कृष्णः, श्वेतः, पीतःनिपुणाग्रेसरः
पोमेरेनियन्१.५-३.५९-११कृष्णः, कपिषः,श्वेतःक्रीडाचतुरः
स्पिट्ज्८-१५१०-१८श्वेतः, कृष्णः, कपिषःस्वेच्चाचारी, कोपिष्टः
माङ्ग्रेल्स्---सुरक्षापटुः
सेण्ट बर्नार्ड्७०-९५२४-३६रक्तः,श्वेतकृष्णमिश्रुतःरक्षणापटुः
राट् वीलर्४०-४५२३-२८कृष्णः, कपिषःसुरक्षापटुः
नेपोलियन् मास्टिफ्५०-७०२६-२९कृष्णः, कपिषः, रक्तःआक्रमणकारि
काकर् स्पेनियल्१३-१६१६-१७कृष्णः, रक्तः, स्वर्णवर्णःरोमभरितः
गोल्डन् रिट्रैवर्--स्वर्णवर्णःमृगयापटुः
जाक् रसेल् टेरियर्७-८१२-१४श्वेतः, कृष्णः, कपिषःसाहसपटुः
बुल् डाग्२०-२५१६-१८श्वेतः, रक्तःसुरक्षापटुः
ग्रेहौण्ड२४-३६२६-३०श्वेतः, कृष्णः, कपिषः,रक्तःधावनपटुः
डाल्मेषियन्२२-२५२१-२४श्वेतः(कृष्णः उत् कपिषवर्णस्य बिन्दवः भवन्ति)सुन्दरः, मृगयापटुः
ल्हासाप्सो६-७१०-११श्वेतः, कृष्णः, कपिषःसुरक्षापटुः
ल्याब्रडार् रिट्रैवर्२४-३४२२-२४कृष्णः, कपिषःस्नेहजीवि,
ग्रेट्डेन्-२८-४२-दैत्यकायः,मृदुस्वभावः
पूडल्-१०-१५श्वेतः, रजतवर्णः,रक्तः कपिषः-
पग्६-८१०-११रजवर्णःकृष्णमुखी
बसेट् हौण्ड्२३-२८१३-१४-मृगयापटुः
ब्लड् हौण्ड्४०-४५२४-२६-प्रत्यभिज्ञानपटुः
बसेञ्जे९-१०१६-१७-नभषति
शार् पी१६-२५१६-२४-रक्षणापटुः

आहारः

वैद्यानां सलहानुसारेण निद्रिष्टम् आहारं देयं भवति। मनष्याणां खाद्यवस्तूनि नदेयानि। उदाहरणार्थं बिस्कत्, चाकलेहः, पयोहिमम्, फिज्जादीनि नदेयानि भवन्ति। शुनकेभ्यः दिनेषु देयाहारप्रमाणम् (ग्राम् परिमिते)

वयःलघुशुनकःमध्य(गात्र)शुनकःबृहद्शुनकःअतीवबृहद्शुनकःदिने कतिवारं
३ मासाभ्यान्तरम्२००-३५०२५०-६००६००-८५०७५०-९५०५-६
३-६ मासाभ्यान्तरम्३५०-८००७००-१०००८००-१६००१०००-२०००३-४
६ मासानन्तरम्७५०-९५०८६०-१६००१६००-२०००२०००-३०००२-३

स्नानम्

शुनकेभ्यः जन्मात् ८-१० सप्ताहादनन्तरमेव स्नादिकं कारणीयम्। प्रतिनित्यम् अनपेक्षते। ३-४ सप्ताहेषु एकवारं स्नानादिकं कारणीयम्। श्वानफेनकस्यैव उपयोगः कर्तव्यः। अस्मिन् समये श्वुनकस्य कर्णयोः कार्पासं स्थापनीयम् अन्यथा जलं कर्णयोः प्रविश्य पीडाभवेत्।

औषधम्

रोगनिरोधकौषधानि सकाले देयानि भवन्ति। रेबिस्, डिस्टेम्पर्, पार्वो, हेपटैटिस्, लेप्टोस्टैरोसिस्, प्यारायिन्फ्लुयेन्जा, करोनाच शुनकसम्बन्धितरोगाः भवन्ति। एतेभ्यः रोगेभ्यः रक्षणार्थं सकाले वैद्यस्य समीपे नयनादिकं सुकरं भवति। शिशुभ्यः मासद्वये एकवारं रोगनिरोधकौषधं देयम् इति।

वीथिका

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=शुनकः&oldid=482170" इत्यस्माद् प्रतिप्राप्तम्