विश्वपरम्परास्थानानि

युनेस्कोसंस्था विश्वसंस्थायाः सांस्कृतिकाङ्गम्। युनेस्को संस्था अन्ताराष्ट्रियस्तरे शैक्षणिकक्षेत्रे, सामाजिकक्षेत्रे, सांस्कृतिकक्षेत्रे, आर्थिकक्षेत्रे च कार्यं करोति । विश्वस्य कानिचन विशिष्टस्थानानि विश्वपरम्परास्थानानि इति अनेन उद्घुष्यन्ते । तानि अरण्यानि, पर्वताः, सरांसि, मरुस्थलानि, भवनानि, स्मारकानि, भवनसङ्कीर्णानि, नगरानि वा भवन्ति । एतानि अपूर्वस्थानानि संरक्षितस्थानानि सन्तु इति धिया युनेस्कोतानि स्थानानि विश्वपरम्परास्थानावल्यां प्रवेशयति । तादृशस्थानानां संरक्षणं कृत्वा अग्रिमवंशश्रेणिपर्यन्तं तस्य प्रापणार्थं प्रयतते एषा संस्था । २१राष्ट्रानां सदस्याः अस्यां संस्थायां भवन्ति । विश्वपरम्परास्थाननिश्चयस्य अपि काचन समितिः भवति । अस्याः समितेः सदस्यत्वम् अवधिनिश्चितं भवति । अतः सदस्यराष्ट्रानि परिवर्तितानि भवन्ति । समग्रविश्वस्य सांस्कृतिकस्य प्राकृतिकस्य च स्थानानानि अभिज्ञाय आवलिं कृत्वा तेषां संरक्षणम् अस्याः संस्थायाः उद्देशेषु अन्यतमः । कदाचित् एतादृशस्थानानां संरक्षणार्थं संस्था धनानुदानं करोति । क्रि.श. १९७२तमवर्षस्य नवेम्बर् १६तमे दिने आगता योजना विश्वस्य १८४ राष्ट्रैः अनुमोदिता । एतवति काले विश्वस्य ८५१स्थानानि अस्याम् आवल्यां विनिवेशितानि सुरक्षितानि च । तेषु ६६०स्थानानि सांस्कृतिकस्थलानि, १६६प्राकृतिकस्थलानि, २५स्थलानि उभयत्र समाविष्टानि सन्ति । एतानि ८५१स्थानानि विश्वस्य १४२राष्ट्रेषु सन्ति । विश्वपरम्परास्थानानि तत्तद्राष्ट्रस्य सम्पत्तिः चेदपि अग्रिमवंशश्रेणिं सङ्कान्तिः समस्तप्रपञ्चस्य एव ।

युनेस्कोविश्वपरम्परालाञ्छनम्

आरम्भिककार्यक्रमाः

क्रि.श. १९५९तमे वर्षे ईजिप्त् देशः नैल्नद्द्यां जलबन्धं निर्मितुं निसचिनोत् । किन्तु प्राचीनसभ्यतायाः स्मारकं अबुसिम्बेल् प्रदेशस्य देवालयाः जलेनिमग्नाः भवन्तीति चिन्ता आगता । तदा युनेस्को देवालयस्य संरक्षणार्थं काञ्चित् योजनाम् अकरोत् । ईजिप्त् सुडान् इत्यादीनां देशानां विरोधमपि उपेक्षं मन्दिरस्य अवयवान् अपनीय उन्नतस्थाने पुनर्निर्माणम् अकरोत् । अस्याः योजनायां व्ययः तस्मिन्नेव काले ८०मिलियन् डालर् अभवत् । अस्य व्ययस्य अर्धभागः प्रपञ्चस्य ५०विविधराष्ट्रैः दानरूपेण सङ्ग्रहीतः । अस्य कार्यस्य यशः विश्वस्य अन्यपरम्परास्थानानां सुरक्षणार्थं युनेस्कोसंस्थायाः प्रेरकम् अभवत् । तादृशस्थानेषु अन्यतमाः इटलिदेशस्य वेनिस्, पाकिस्तानस्य जोहेञ्जोदारो, इण्डोनेशियादेशस्य बोरोबुडूर् देवालयः इत्यादीनि मुख्यानि । पश्चात् युनेस्कोसंस्था विश्वस्य सर्वपरम्परास्थानानि रक्षितुम् आवश्यकनियमानि सृष्टुं सिद्धाभवत् ।

निर्णयाङ्गीकारः

अमेरिकासंयुक्तसंस्थानं (यु.एस्.ए.) विश्वस्य संस्कृतेः प्रकृतेः च संरक्षणार्थम् एकस्यमेव कार्ययोजनायां कार्यरतम् । क्रि.श. १९६५तमे वर्षे यु.एस्.ए. विश्वस्य प्राकृतिकरम्यस्थानानां, सांस्कृतिकमौलिकस्थानानां संरक्षणेण अग्रिमसभ्यातै दातुं विश्वपरम्परायाः संस्थामेकां सृष्टुं विश्वाय सूचनाम् अयच्छत् । क्रि.श. १९६८तमे वर्षे अन्तारष्ट्रियप्रकृतिसंरक्षणसङ्घः एतादृशयोजनाम् एव प्रस्तुत्य क्रि.श. १९७२तमे वर्षे स्वीडन् देशस्य स्टक् होम् समारम्भे, क्रि.श. १९७२तमे वर्षे विश्वसंस्थायाः सम्मेलने असूचयत् । अयं विचारः जगतः राष्ट्रैः बहुमतः अभवत् । अनेन विश्वपरम्परासमितिरचनस्य निर्णयः युनेस्कोसंस्थया स्वीकृतः ।

नमकरणप्रक्रिया

विश्वपरम्परास्थानमिति किञ्चित् स्थानम् उद्घोषणीयं चेत् इयं दीर्घकालीना प्रक्रिया । राष्ट्रेन स्वस्य सर्वानां सांस्कृतिकप्राकृतिकसम्पदः आवली निर्मातव्या । अग्रे आवलिगतस्थनेसु किञ्चित् स्थानं विश्वपरम्परास्थानमिति उद्घोषणार्थं सूचयितुं शक्यते । अभ्यर्थनार्थम् आवश्यकाभिलेखान् निर्मातुं युनेस्को साहाय्यम् आचरति । इयं सञ्चिका प्रकृतस्थानस्य सर्वविषयान्तर्गता भवति । एताम् अभ्यर्थनसञ्चिकाम् अन्ताराष्ट्रियस्मारकस्थानसमितिः विश्वसंरक्षणासङ्घः इति द्वै स्वायत्तसंस्थे अध्ययनं कुरुतः । अध्ययनस्य वृत्तान्तं स्वसंस्तुतिपत्रेण सह विश्वपरम्परासमित्यै समर्प्यते । वर्षे द्विवारं सम्मेल्या इयं समितिः अभ्यर्थितदेशस्य प्रकृतस्थानानि परम्परास्थानम् अर्हतिव नेति चिन्तनं करोति । कदाचित् पुरस्कारः कदाचित् तिरस्कारः कदाचित् आवश्यकविषयसङ्ग्रहार्तं निर्णयः निरुद्धः भवति । अद्यत्वे यत्किमपि स्थानं विश्वपरम्परास्थानत्वं प्रापुं दशमानदण्डैः परीक्षते ।

चयनस्य मानदण्डाः

क्रि.श. २००४तमवर्षस्य अन्त्यपर्यन्तं सांस्कृतिकपरम्परा ६मानदण्डैः प्राकृतिकपरम्परा ४मानदण्डैः च परीक्षते स्म । क्रि.श. २००५तमे वर्षे एतानि नियमानि परिष्कृत्य दशांशानां आवली निर्मिता । अभ्यर्थितस्थानम् एतेषु दशगुणेषु न्यूनातिन्यूनम् एकगुणयुतं विस्वस्य सम्पत् इति परिगणिता स्यात्

सांस्कृतिकमानदण्डाः
  • . मानवसृष्टेः अद्भुतः प्रतीकः स्यात् ।
  • . वास्तुशास्त्रम् अथवा तन्त्रज्ञानम्, स्मारकनिर्माणस्य कला नगरपरियोजनम् अथवा भूप्रदेशस्य सौन्दर्यवर्धनस्य कलाविन्यसेषु एकवर्षस्य एकस्मिन्नेव प्रदेशे सम्भूतः प्रगतेः द्योतकः स्यात् ।
  • . कस्याश्चित् संस्कृतेः परम्पपरा अथवा जीवमानायाः नष्टायाः वा सभ्यतायाः प्रतीकः स्यात् ।
  • .मानवेतिहासस्य गण्यस्तरस्य प्रतिबिम्बकं किञ्चित् भवनं अथावा तस्य निर्माणस्य वास्तुशिल्पम्, अथवा तस्य निर्माणस्य तन्त्रज्ञानम् अथवा भूविन्यासः स्यात् ।
  • . परम्परागतमानवनिवासस्य, अथवा परम्परागतभूमेः उपयोस्य, अथवा समुद्रस्य परम्परागतोपयोगस्य अनुपमः द्योतकः स्यात् ।
  • . घटनाः, जीवमनाः सम्प्रदायाः, मानवानां विश्वासाः,वैश्विकस्तरस्य कलात्मककृतयः, साहित्यकृतयः च स्युः ।
प्राकृतिकमानदण्डः
  • . स्थानम् अतिविशिष्टया नैसर्गिकक्रियया युक्तं स्यात् अथवा अतिविशिष्टप्रकृतिसौन्दर्ययुतं स्थात् ।
  • .भुरचनायां सम्भूयमानायाः प्रगतेः लक्षणैः युक्तम् अथवा विशिष्टभूतलभागयुक्तं जीविनामितिहाससहितं भूरचनेहासस्य प्रमुखः कालघट्टस्य उत्तमम् उदाहरणं स्यात् ।
  • .भूतलस्य, नदिजलस्य, समुद्रजलस्य, तटप्रदेशस्य जीवकुलस्य सस्यसङ्कुलस्य वा विकासः परिवर्तनम्, जैविक्रियायाः च अत्युत्तमम् उदाहरणं स्यात् ।
  • १०. विनश्यमानं जीविकुलसहितं, तेषां रक्षणार्थं विद्यमानं प्राकृतिकस्थानं स्यात् ।

लेखांशाः

सद्यः विश्वे ८५१विश्वपरम्परास्थानानाम् अवलिगतानि स्थानानि सन्ति । एतानि भौगोलिकाधारेण ५भागेषु विभक्तानि । एते विभागाः एवं सन्ति । आफ्रिका, अरबस्थानम्, उत्तराफ्रिका, मद्यप्राच्यदेशाः, एषियापेसिफिक्, एषिया, आस्ट्रेलिय, ओशियाना, यूरोपदेशः, उत्तरामेरिका, केनडा, ल्याटिनमेरिका, केरिब्बियन् च । प्रशासनानुकूलार्थम् एतानि विभक्तानि सन्ति । अत्यधिकसङ्ख्या विश्वपरम्परास्थानयुतानि राष्ट्रानि एतानि सन्ति । इटलिदेशः - ४१, स्पैन्देशः - ४०, चीनादेशः - ३५, जर्मनिदेशः- ३१, फ्रान्स्देशः - ३१, संयुक्तसंस्थानदेशः - २७अधोनिर्दिषेषु पञ्चविभागेषु विश्वपरम्पारस्थानानां सङ्ख्या एवमस्ति ।

विभागःनैसर्गिकम्सांस्कृतिकम्सम्मिश्रम्सकलम्प्रतिशतम्
आफ्रिकादेशः३३३८७४
अरबस्थानराज्यानि५८६२
एष्याफेसिपिक्४५१२६१११८२२१
यूरोफ्देशः उत्तरामेरिकादेशः५१२५८४१६४९
ल्याटिन् अमेरिकादेशः३४८०११७१४
सकलम्१६६६६०२५८५११००

बाह्यानुबन्धाः

अवलोकयोग्याः