पाणिनिः (Panini) संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।पाणिनेः तपसा सन्तुष्टः परशिवः ताण्डवं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत् । तस्याः ढक्कायाः शब्दान् पाणिनिः अशृणोत् । नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥ एते शिवडमरुसमुत्थाः शब्दा एव माहेश्वरसूत्राणि इति श्रूयन्ते । तदनन्तं पाणिनिः व्याकरणशास्त्रस्य मूलाधारम् अष्टाध्यायीति सूत्रग्रन्थं व्यरचयत् । शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ (अधिकवाचनाय »)
|